________________
[धर्मकल्पद्रुमः तत्रादौ दानशाखायां, माहात्म्यं किञ्चिदुच्यते । दानेनेहोत्तमा भोगाः, कीर्तिर्दानेन निर्मला ॥१००॥ त्यक्त्वा राज्यादिकं सौख्यं, पात्रदानाल्लभेच्छिवम् । यथा चन्द्रयशा भूपो, धर्मदत्तो वणिग् यथा ॥१०१।। हस्तिपालनृपः प्राह, प्रभो ! मे हृदि कौतुकम् । कोऽयं चन्द्रयशा भूपो, धर्मदत्तोऽपि को नरः ॥१२॥ प्रभुः प्रोवाच भो राजन् ! श्रूयतां तत्कथानकम् । विस्मयस्तव चित्तस्य, श्रुते यस्मिन् भविष्यति ॥१०३।। तथाहि मध्यमो द्वीपो, जम्बूनामा प्रकीर्तितः । तन्मध्ये प्रथमं क्षेत्रं, पवित्रं भरताभिधम् ॥१०४॥ तन्मध्येऽप्युत्तमो देशः, सा(शा)रदादेवताश्रितः । काश्मीर: कौतुकैर्युक्तो, विरक्तः पापकर्मतः ॥१०५।। चन्द्रवत्प्रोज्वलं यत्र, पुरं चन्द्रपुराभिधम् । श्रीयशोधवलो यत्र, धात्रीशो धर्मवान् शुचिः ॥१०६।। सुरदेवीसमा देवी, यस्य जज्ञे यशोमती । रूपसौभाग्यशीलादिगुणमाणिक्यभूषिता ।।१०७।। तत्कुक्षिसरसीहंसो, निर्मलश्च महामतिः । शुद्धपक्षोऽभवद्राज्ञो, नाम्ना चन्द्रयशाः सुतः ॥१०८॥ धात्रीभिः पाल्यमानस्तु , हस्ताद्धस्तेषु संचरन् । क्रमेण तनयः सोऽथ, सञ्जातः सप्तवाषिकः ॥१०९।। आचार्याय ततो राज्ञा, पठनार्थं समर्पितः । प्राज्ञः पठति सोऽत्यन्तं, पूर्वाधीतमिव श्रुतम् ॥११०।। व्याकरणं च साहित्यं, छन्दोऽलङ्करणं तथा । स्वल्पैरेव दिनैः सर्वं, शास्त्रं तेनातिशिक्षितम् ॥१११॥ कृतः शकुनशास्त्रेषु , दृढ: परिचयस्ततः । निपुणः सर्वशब्देषु , बभूव पशुपक्षिणाम् ॥११२।।
20
25