________________
प्रथमः पल्लवः]
[११ शरीरं व्रणमित्याहुर्भोज्यं तत्पिण्डबन्धनम् । व्रणप्रक्षालनं स्नानं, वस्त्रं स्यात्तस्य पट्टकः ॥८९॥ कर्पूरकुङ्कमागुरुमृगमदहरिचन्दनादिवस्तूनि । भव्यानपि संसर्गान्मलिनयन्ति कलेवरं नृणाम् ॥१०॥ सुस्वादं सुसुगन्धि मोदकदधिक्षीरेक्षुशाल्योदनम् , द्राक्षापर्पटिकामृताघृतपुरस्वर्गच्युताम्रादिकम् । भुक्तं यत्सहसैव यत्र मलसात्संपद्यते सर्वतः, तं कायं सकलाऽशुचिं शुचिमहो मोहान्धता मन्यते ॥११॥ एवंविधस्य कायस्य, सारं यत्पुण्यसेवनम् ।
परोपकारकरणं, व्रताभिग्रहधारणम् ॥१२॥ यतः- मनोविशुद्धं पुरुषस्य तीर्थं, वाक्संयमश्चेन्द्रियनिग्रहश्च ।
त्रीण्येव तीर्थानि शरीरभाजां, स्वर्गं च मोक्षञ्च निदर्शयन्ति ॥१३॥ अन्यच्च- जयन्ति जितमत्सराः परहितार्थमभ्युद्यताः,
पराभ्युदयसुस्थिताः परविपत्तिखेदाकुलाः । महापुरुषसंकथाश्रवणजातरोमोद्गमाः, समस्तदुरितार्णवे प्रकटसेतवः सन्नराः ॥१४॥ जनस्य सर्वस्य समीहितानि, कार्याणि कुर्वन्नुपकारकारी । स्वार्थे प्रमादी प्रगुणः परार्थे , न कस्य कस्येह स वल्लभोऽत् ॥१५॥ न सद्वाक्यात् परं वश्यं, न कलायाः परं धनम् । नाहिंसायाः परो धर्मो, न संतोषात् परं सुखम् ॥१६॥ धर्मस्य विनयो मूलं, विनयेनाय॑ते धनम् । विनीता स्त्री प्रिया पत्युस्त्रिवर्गो विनयात्मकः ॥१७॥ विवेकः स्तोकपुण्यानां, चिरं चित्ते न तिष्ठति । मन्दिरेषु दरिद्रस्य, प्रदीपो दीप्यते कियत् ? ॥१८॥ दानशीलतपोभावचतुःशाखासमन्वितः । धर्मकल्पद्रुमो दत्ते, श्रेयो वित्तादिकं सुखम्" ॥१९॥
20
25
१. मोहान्धिता मन्वते इति साधुः ।