________________
१०]
[धर्मकल्पद्रुमः प्रतिवर्षं सहर्षेण, निजवित्तानुमानतः ।
पूजनीयाः सधर्माणो, धर्माचार्याश्च धीमता ॥७७॥ यतः- सम्यक्त्वं भज मुञ्च कुत्सितमतं मन्यस्व देवं जिनम् ,
सत्साधून् गुरुतां नय त्यज मदं मा जन्तुनिन्दां कृथाः । मा कार्षीः परतप्तिमुत्तमगुणैः सङ्गं सुशीलात्मकैरात्मारामतया भजस्व न शिवं दूरे तव स्थास्यति ॥७८॥ मनोवचनकायाश्च, वर्त्तन्ते यस्य निर्मलाः ।
संसारं स समुत्तीर्य, पारगामी भवत्यलम् ॥७९॥ यतः- मन एव मनुष्याणां, कारणं बन्धमोक्षयोः ।
बन्धस्य विषयासङ्गि, मुक्तेर्निर्विषयं मनः ॥८०॥ दानं पूजा तपश्चैव, तीर्थसेवा श्रुतं तथा । सर्वमेव वृथा तस्य, यस्य शुद्धं न मानसम् ॥८१॥ स्वजने स्नेहसम्बन्धे, रिपुवर्गेऽपकारिणि । स्यात् तुल्यं ते यदा चित्तं, तदा ते परमं सुखम् ॥८२॥ शब्दादिविषयग्रामे, सुन्दरेऽसुन्दरेऽपि वा । एकाकारं यदा चित्तं, तदा ते परमं सुखम् ॥८३॥ गोशीर्षचन्दनालेप-वासीछेदकयोर्यदा । अभिन्नचित्तवृत्तिः स्यात्तदा ते परमं सुखम् ॥८४॥ पीयूषमिव सुस्वादु-र्भास्वानिव विबोधकृत् । ज्ञानीव तत्त्वनिष्णातः, सतां वचनविस्तरः ॥८५॥ सूनृतं करुणाक्रान्तमविरुद्धमनाकुलम् । अग्राह्यं गौरवाश्लिष्टं, वचः सद्भिः प्रशस्यते ॥८६॥ हितं मितं प्रियं स्निग्धं, मधुरं परिणामि यत् । भोजनं वचनं चापि, भुक्तमुक्तं प्रशस्यते ॥८७॥ सर्वाशुचिनिधानस्य, कृतघ्नस्य विनाशिनः । वर्ण्यते तस्य कायस्य, मूढेन गुणविस्तरः ॥८८॥
25