________________
द्वितीयः पल्लवः ॥
10
नरेषु चक्री त्रिदशेषु वज्री, मृगेषु सिंहः प्रशमो व्रतेषु । मतो महीभृत्सु सुवर्णशैलो, भवेषु मानुष्यभवः प्रधानः ॥१॥ महाकुलप्रसूतोऽपि, धर्मोपार्जनवर्जितः । भवेद्भवान्तरेष्वेव, परोच्छिष्टान्नभोजकः ॥२॥ अतः श्रीपतिमित्र ! त्वं, मिथ्यात्वं खलु वर्जय । पुण्यमर्जय तत् किन्तु , यथा स्यात् सुत उत्तमः ॥३॥ यात्यधोऽधो व्रजत्यूचं, नरः स्वैरेव कर्मभिः । खनितेव हि कपस्य, प्रासादस्येव कारकः ॥४॥ संसारे भ्रमणं नूनं, भवेन्मिथ्यात्वभावतः । दुष्कर्मोपार्जनेनाधोगतिं त्वञ्च गमिष्यसि ॥५॥ घनञ्च कथ्यते तेन, येन सङ्गतिरावयोः ।
सत्सङ्गत्या सुधर्मत्वं, कुसङ्गात् पापमाचरेत् ॥६॥ उक्तञ्च- संगवसेणं जायइ धम्मं पावं च णत्थि संदेहो ।
कुरुरायनेहबद्धो, गोहरणं कुणइ गंगेओ ॥७॥ [ ] सतां प्रभावातिशयान्मज्जकोऽपि हि तारकः । जलविन्यस्तशैलेन्द्रैः, सैन्यं रामस्य तारितम् ॥८॥ अवस्त्वपि हि वस्तु स्यादाश्रयेण महात्मनाम् । स्युः सिद्धरससंविद्धाः, सुवर्णं लोहधातवः ॥९॥ गुणज्ञत्वं कृतज्ञत्वममात्सर्यमदीनता । दया सत्यं गुरोर्भक्तिरिति सत्पुरुषव्रतम् ॥१०॥