________________
5
10
151
20
25
३२]
[ धर्मकल्पद्रुमः
तदा कन्याऽप्यसौ वीक्ष्य, प्रस्तावं चेत्यचिन्तयत् । किं भविष्यति ? नो जाने, तन्मृतिं साधयाम्यहम् ॥१९८॥ ध्यात्वेत्यागत्य वृक्षेऽस्मिन्, मृत्यवे यावदुद्यता । असौ तावत् त्वया पाशाद्रक्षिता स्वसृजा मम ॥ १९९॥ हत्वाऽहं सुरसेनं तमधुनाऽहं समागतः । अस्माकमेष सम्बन्धः, कन्याया मातुलस्त्वहम् ॥२००॥ अथो कुमारवृत्तान्तं, यावत् पृच्छेत् स खेचरः । किन्तु तावद्वने तत्र, महत्सैन्यं समागतम् ॥२०१॥ सैन्यं पश्यन्ति ते यावत्तावच्चामिततेजसा । निजोपलक्षिता माताऽऽयाता विद्युल्लताऽभिधा ॥ २०२॥ सुरसेनयुतं युद्धं, सा ज्ञात्वाऽमिततेजसः । शशिवेगेन पुत्रेण, सैन्येन च सहागता || २०३|| प्रतिपत्तिः कृता मातुः, पुत्रेणामिततेजसा । दृष्ट्वा चन्द्रोदयं तत्र, दध्यौ विद्युल्लता मुदा ॥२०४॥ अहो गुणाकरः कोऽसौ, किं वाऽयं कल्पपादपः । सुधारसो निधिः किं वा यस्य चेष्टा शुभेदृशी ॥२०५॥ नरः सम्भाव्यते कोऽसौ, मया दृष्टोऽस्त्ययं क्वचित् । एवं तस्याश्चिन्तयन्त्याः, स्मृतं द्रागिति चेतसि ॥ २०६॥ नन्दीश्वरस्य यात्रार्थं, गच्छन्त्याऽयं पुरा मया । पुष्पभद्रपुरोद्याने, दृष्टश्चन्द्रोदयो रमन् ॥२०७॥ तत्स्वरूपं तया प्रोक्तं सर्व्वेषां साऽथ कन्यका । दध्यौ स्फुरति भाग्यं मे, यदिष्टो मिलितो वरः ॥ २०८॥ कन्याकमलमालायुक्, वरश्चन्द्रोदयो द्रुतम् । आदरेणामरपुरेऽथानीतोऽमिततेजसा ॥२०९॥ राजा भुवनचन्द्रोऽपि, हर्षितो वरदर्शनात् । विस्तराच्च ततश्चक्रे, तयोः पाणिग्रहोत्सवम् ॥२१०॥