________________
सप्तमः पल्लवः ]
गताः स्वस्थानममिततेजोमुख्याश्च सज्जनाः । भुञ्जन् भोगांस्तया सार्धं, कुमारस्तत्र संस्थितः ॥२११॥ अथान्यदा सुखं सुप्तः, कुमारः स्वगृहे निशि । जजागार प्रगे यावत् तावत् पश्यति चेदृशम् ॥२१२॥ अरण्ये श्वापदाकीर्णे, विकटे क्वापि पर्व्वते ।
मुक्तं शिलातले केनचिदात्मानं ददर्श सः ॥ २९३॥
तदा सोऽचिन्तयच्चित्ते, कथं जातं ममेदृशम् ? । क्व सा राज्यस्थितिः सौधं, स्वर्विमानसमं क्व च ? ॥२१४ ॥
क्व स दिव्यपल्यङ्कः, क्व चन्द्रोदयचारुता । क्व सा प्राणप्रिया प्रेमवती कमलमालिका ॥ २१५ ॥
क्व सा चम्पकमालादिपुष्पसामग्रिका शुभा । स्वर्भोगसदृशं सर्व्वं, क्व गतं पूर्व्वकर्म्मतः ? ॥२१६|| किमरण्यं गिरिः कोऽसौ शिला कासौ च कर्कशा । सिंहादिभीषणाटव्यां, केनानीतस्त्वहं निशि ? ॥२१७|| पुराऽहं स्ववने क्रीडन्, हृत्वाऽब्धौ केन पातित: ? । तस्मिंस्तीर्णे विवाहोऽभूत् कथं जातमिदं पुनः ? ॥२१८॥ एवं ध्यायन् क्षणं स्थित्वा, गाथार्थं च स्मरन् हृदि । धैर्यं धृत्वा स चोत्थायोत्ततार गिरिशृङ्गतः ॥२१९॥ अरण्ये भ्रमता तेन, कस्याशोकतरोस्तले । कायोत्सर्गस्थितो दृष्टो, जिनमुद्रां धरन् मुनिः ॥ २२०॥ क्षमाधारं निव्विकारं, त्यक्ताहारं जितेन्द्रियम् । तं प्रेक्ष्य भावनायुक्तो, ववन्दे स विवेकवान् ॥२२१॥ मौनं विमुच्य दत्त्वा च, धर्मलाभाशिषं मुनिः । प्रारेभे देशनां पुण्यवाहिनी पापनाशिनीम् ॥२२२॥ दुर्लभं भवकोट्या हि मानुष्यं चोत्तमं कुलम् । श्रद्धा च धर्मसामग्री, दुर्लभा भविनां भवे ॥२२३॥
[ ३०३
5
10
15
20
25