________________
सप्तमः पल्लवः]
[३०१ एकदा सा सखीवृन्दसंयुता कानने गता । कर्तुञ्च विविधां क्रीडां, प्रवृत्ता तत्र हर्षिता ॥१८५।। तदा किन्नरकिन्नौ, मिलित्वा तत्र सुस्वरम् । चन्द्रोदयकुमारस्य, गायतः स्म गुणान् घनान् ॥१८६।। कुमारी तद्गुणान् श्रुत्वाऽपृच्छद् गत्वा तदन्तिके । अहो कोऽयं कुमारो यद्वर्णनं क्रियते सुरैः ? ॥१८७।। किन्नरी प्राह हे कन्ये !, पुष्पभद्रपुरेश्वरः । पुष्पचूलोऽस्ति भूपालस्तत्पत्नी पुष्पमालिनी ॥१८८॥ तत्कुक्षिसरसीहंसो, ज्ञेयश्चन्द्रोदयो महान् । गृहीता येन गाथका, लक्षकाञ्चनदानतः ॥१८९।। इत्युक्त्वा किन्नरद्वंद्वं, गतं व्योमनि तत्क्षणात् । ततः कन्या कुमारं तं, स्पृहन्तीति व्यचिन्तयत् ॥१९०॥ अस्मिन भवे परभवे. भर्त्ता चन्द्रोदयोऽस्तु मे। मनसाऽपि नरो नान्यः, प्रतिज्ञेति कृता तया ॥१९१।। ततो ज्ञात्वा स्वरूपं तत्पिता भुवनचन्द्रराट् । चन्द्रोदयवरार्थेऽथ, कुरुते यावदुद्यमम् ।।१९२।। तावत् संवीक्ष्य तां कन्यां, विद्याभृत्सुरसेनकः । मोहितोऽस्याः सुरूपेण, हृत्वाऽकस्माद् ययौ रयात् ॥१९३।। तामिमां कन्यकां नीत्वा, प्रदेशेऽस्मिन् मुमोच सः । विलपन्तीमिमां यावत् , खेचरः स्थापयेद्बलात् ॥१९४॥ तावत्कन्यामातुलेन, मयैवामिततेजसा । गच्छता व्योम्नि दृष्टाऽसौ, रुदन्त्युच्चैरिह स्थिता ॥१९५॥ युग्मम् ॥ भागिनेयामिमां ज्ञात्वा, हक्कितः खेचरो मया । अरे कर्म किमारब्धं ?, जीवितं रोचते न ते ॥१९६॥ इत्युक्ते स रुषा योद्धमागतो मम सम्मुखः । दिव्यास्त्रैर्दारुणं युद्धमावयोरुभयोरभूत् ।।१९७।।
25