________________
[
]
[धर्मकल्पद्रुमः घञ्चनाघोलनान्यायात् , संसारमतिदुस्तरम् । संपूर्य लाघवाज्जीवो, यथा प्राप्नोति सद्गतिम् ॥१७२॥ भीषणं मत्स्यकूर्माद्यैः, सोऽवगाह्य तथाम्बुधिम् । कल्लोलैः प्रेरितस्तीरं, सम्प्राप नवभिर्दिनैः ॥१७३॥ युग्मम् ॥ भूमि प्रेक्ष्य दधन्मोदं, स बभ्रामाम्बुधेस्तटे । नालिकेरजलं चाङ्गे, मर्दयित्वाऽभवत् पटुः ॥१७४।। पत्रैः पुष्पैः फलै रम्यैः, प्राणयात्रां विधाय च । वने वने स चिक्रीड, प्राप्तद्वीप इवामरः ॥१७५।। मातापितृवियोगोत्थं, दुःखं गाथार्थचिन्तया । सोऽवगणय्य धैर्येण, बभ्राम सकले वने ॥१७६।। महारण्येऽन्यदा श्रुत्वा, रुदितं सोऽग्रतो ययौ । रुदन्त्यास्तत्र बालायास्तेनेति वचनं श्रुतम् ॥१७७।। रे दैवाहं कथं सृष्टा, निर्भाग्या दुःखभागिनी । अस्तु चेह परत्रापि, भर्ता चन्द्रोदयो मम ॥१७८॥ एवं विलप्य सा चूतशाखायां पाशमात्मना । बद्ध्वाऽमुञ्चत् स्वकण्ठे द्राग् , छिन्नश्चन्द्रोदयेन सः ॥१७९।। सचेतना कता यावत् तदागात कोऽपि खेचरः । कुमारेण च तस्याग्रे, कन्यापाशकथोदिता ॥१८०॥ खेचर: स्माह भद्र ! त्वं, परोपकृतिकारकः । दृश्यतेऽत्रैत्य यत्कन्यामरणं येन वारितम् ॥१८१।। विद्याधरञ्च पप्रच्छ, कुमारोऽपि विचारवान् । द्वीपः क एष कस्त्वञ्च, का कन्या मृत्युसाधिका ? ॥१८२॥ श्रूयतां खेचर: स्माह, द्वीपोऽयममराभिधः । अस्त्यत्रैवामरपुरं, स्वर्गखण्डमिव क्षितौ ॥१८३॥ राजा तत्रास्ति भुवनचन्द्रश्चन्द्र इवोज्ज्वलः । चन्द्रावलीति तद्भार्या, सुता कमलमालिका ॥१८४।।