________________
सप्तमः पल्लवः ]
अन्यदा राजपुत्रोऽसौ, क्रीडां कर्तुं वने गतः । सुमित्रैः सह चिक्रीड, विनोदैस्तत्र भूरिभिः ॥१५९॥ इतश्च कोऽपि तत्रैको, दुष्टो देवः समागतः । अपहृत्य कुमारं तमुत्पत्य च गतोऽम्बरे ॥ १६० ॥ चन्द्रोदयो व्रजन् व्योम्नि, चिन्तयामास चेतसि । कस्मादहं हृतः केन, दुष्टदेवेन किं कृतम् ? ॥१६१॥ विमृश्य हृदि धैर्यं, च, धृत्वा चन्द्रोदयो जगौ । दुष्ट ! त्वं न मां वेत्सि, गृहीत्वा किङ्करिष्यसि ? ॥१६२॥ धरन् कपालिवेषं स, देवोऽपीत्यवदत् तदा । अरे रे त्वद्बलिं कृत्वा, साधयिष्याम्यहं सुरीम् ॥१६३|| वृषभाख्यगिरेः शृङ्गे, विश्वघोरास्ति या दरी । तन्मध्येऽस्ति विरूपाक्षी, विकटा व्यालवाहना ॥१६४॥ मया सा साधिता शक्तिर्जापोमा कृतौ भृशम् । देवी तथापि नाऽतुष्यत्, दत्तः स्वप्नः परं मम ॥ १६५ ॥ द्वात्रिंशल्लक्षणोपेतं नरं भो मम कल्पय । येनाहं तव वेगेन, पूरयामि समीहितम् ॥१६६॥ स्वप्नं विचार्य भूपीठे, भ्रमामि नरहेतवे । सर्वलक्षणसम्पूर्णो, दृष्टस्त्वं जगृहे मया ॥१६७॥ तदा चन्द्रोदयो दध्यौ, चेत् करिष्यति मद्बलिम् । तर्हि मे जीवितं धिग् धिग्, वधोऽयं पशुवत् यतः ॥१६८॥ धृत्वा धैर्यं ततश्चित्ते, स्मृत्वा पञ्चनमस्कृतिम् । मुष्टिना प्रहतस्तेन, कोऽप्ययं योगिरूपभृत् ॥१६९॥ दृष्ट्वा सत्त्वं कुमारस्य, स कपाली कुकर्म्मकृत् । जगाम सहसोत्पत्य, व्योम्नि मुक्त्वा कुमारकम् ॥१७०॥ निरालम्बः कुमारोऽथ, पपात व्योमतोऽर्णवे । पूर्वपुण्यप्रभावेण, फलकं चटितं करे ॥१७१॥
[ २९९
5
10
15
20
25