________________
5
10
15
20
25
स्ट]
[ धर्मकल्पद्रुमः
ॐ नमः प्रथमं प्रोक्त्वा ( च्य), सर्वपापप्रणाशनम् । इत्येकादशवर्णं तद्गृहचैत्याग्रतो जप ॥१४६॥ प्रमादा दूरतस्त्याज्या, धार्यं ब्रह्मव्रतं त्वया । त्याज्या च विकथा निद्राहारं त्याज्यं चतुर्विधम् ॥१४७॥ एवं कृतेऽत्र भो भद्र !, सप्तमे दिवसे तव । भविष्यत्येव प्रत्यक्षा, दक्षा शासनदेवता ॥१४८॥ ततस्त्वद्भाग्ययोगेन, तुष्टा दास्यति यं वरम् । तमहं नैव जानामि, प्रोक्त्वे (च्ये ) ति स गतो मुनिः ॥ १४९ ॥ अथो सागरचन्द्रेण, शुचीभूत्वा (य) शुभे दिने । सर्व्वसामग्रिकां कृत्वा, प्रारब्धं मन्त्रसाधनम् ॥१५०॥ सप्तमे दिवसे तत्र, मध्यरात्रे समागते । प्रत्यक्षीभूय देवी सेत्यवदत् पतिकान्विता ॥१५१॥ पत्रीं वत्स ! गृहाणेमां, गाथाऽत्रास्ति महार्थयुक् । विक्रेया हेमलक्षेण, चन्द्रोदयस्तु लास्यति ॥१५२॥ तादृशं नास्ति ते पुण्यं, किञ्चित् येनाधिकं ददे । इत्युक्त्वा चीष्टिकां दत्त्वा गता देवी निजस्थितिम् ॥१५३॥ ततः सागरचन्द्रोऽसौ, गाथां नीत्वा चतुष्पथे । गतश्चन्द्रोदयस्तत्र, क्रीडंस्तस्यामिलत् पथि ॥ १५४॥ तत्करे पत्रिकां दृष्ट्वा, ज्ञात्वा गाथाञ्च राजसूः । प्रोचे हे मित्र ! गाथैषा, मह्यं मूल्येन दीयताम् ॥१५५॥ गाथामूल्यं हेमलक्षं, सागरेण निवेदितम् । दत्त्वा मूल्यं गृहीत्वा च स गाथामित्यवाचयत् ॥१५६॥ तद्यथा - अपत्थियं चिय जहा, एइ दुहं तह सुहं पि जीवाणं । ता मुत्तुं सम्मोहं, धम्मे चिय कुणह पडिबंधं ॥१५७॥ [ ] इमां गाथां गृहीत्वा स, गतश्चन्द्रोदयो गृहम् । सागरोऽपि निजस्थानं, प्रययौ स्वर्णलक्षयुक् ॥ १५८॥