________________
सप्तमः पल्लवः]
[२९७ दानादिधर्मकर्माणि, नो त्यजति कदापि सः । इयदस्तीति तद्गेहे, धनसङ्ख्यां न वेत्ति कः ॥१३४॥ सुखेनागमयत् कालं, कृपालुः सर्वजन्तुषु । कुलाचारं स नामुञ्चत् , प्राप्तायां विषमापदि ॥१३५॥ तस्यान्तरायकर्मत्वान्महेभ्यस्यापि हाऽन्यदा । अपहारं विना लक्ष्मीः, क्षीणा जाता स्वभावतः ॥१३६।। तथाप्यसौ सदाचारं, दानधर्मञ्च नामुचत् । स्तोकादपि ददौ स्तोकं, साध्वादिभ्यो महादरात् ॥१३७।। एवं द्वादश वर्षाणि, ययुर्दुस्सहयोगतः । ततोऽन्तरायकास्य, क्षयं प्राप्तं घनं क्रमात् ॥१३८।। एतस्मिन् समये तस्य, गृहे कोऽपि मुनीश्वरः । आगतो लब्धिसम्पन्नः, कल्पद्रुरिव मूर्तिमान् ॥१३९॥ तं तीर्थं जङ्गमं मत्वा, वन्दित्वा च सुहर्षतः ।
अन्नपानादिकं शुद्धं, दत्त्वा स्तुतिमसौ व्यधात् ॥१४०॥ काव्यम्- सोऽयं दिनः शुभमयः समयः स धन्यः,
सा सुन्दरा रजनिरस्तु स एव यामः । यत्र प्रमोदभरनिर्भरलोचनानां, भव्यात्मनां हि भवता सह सङ्गमः स्यात् ॥१४१॥ संप्राप्ततोषोऽथ मुनीश्वरोऽसौ, धर्मोपदेशं प्रददौ तदने । धर्मं प्रपद्यैव जिनोदितं तं, तदाऽवदत् सागरचन्द्र एवम् ॥१४२॥ 20 प्रभो ! कृत्वा प्रसादं मे, कञ्चित् कथय साम्प्रतम् । उपायं सुलभं श्रेष्ठं, येन याति दरिद्रता ॥१४३।। मुनिः श्रुतोपयोगेन, प्रविलोक्येदमब्रवीत् । अस्त्यन्तरायकं कर्म, किञ्चित् ते तेन कथ्यते ॥१४४।। परमेष्ठिमहामन्त्रमध्ये यत् सप्तमं पदम् । तदाराधय दुष्कर्मनाशनं विधिपूर्वकम् ॥१४५॥