________________
5
10
15
20
25
पुत्रोत्पत्तिं नृपः श्रुत्वा, देहे हर्षेण नो ममौ । नानायुक्त्या निजनरैः, पुरीशोभामकारयत् ॥१२१॥ स्थाने स्थाने मल्लयुद्धं, नाटकानि चतुष्पथे । द्रव्यलक्षाणि दीयन्ते, एवं जन्मोत्सवं व्यधात् ॥१२२॥ चन्द्रार्कदर्शनं झोल्यां, शयनं बलिदापनम् । इत्यादीनि सुते जाते, सर्वकर्माणि जज्ञिरे ॥ १२३॥ स्वजने गौरवं कृत्वा, भोज्यवस्त्रादिदानतः । भगिनीवृद्धनारीणामग्रे नृपतिरब्रवीत् ॥१२४॥ अहं प्राक्तनपुण्येन, तपसां साधनेन च । श्रीचन्द्रप्रभभक्त्या च, देवतावरमाप्तवान् ॥ १२५॥ मनोरथशतैः सार्द्धं, सञ्जातो मम नन्दनः । युष्मत्प्रसादतः सर्व्वं, वाञ्छितं फलितं मयि ॥ १२६॥ चन्द्रोदयेति नामास्तु, चन्द्रस्वप्नात् सुतस्य मे 1 दोहदाच्चन्द्रपानस्य, चन्द्रोदरेति चापरम् ॥१२७॥ धात्रीभिः पाल्यमानोऽथ, स चन्द्रोदयनन्दनः । वर्द्धते स्म क्रमान्नित्यं, शुक्लपक्षे यथा शशी ॥१२८॥ विद्याग्रहणयोग्योऽसौ, सञ्जातः सप्तवार्षिकः । महोत्सवेन पाठार्थं, पण्डिताय समर्पितः ॥१२९॥ देवांशत्वात् स्वल्पकालेनाधीतं तेन वाङ्मयम् । शस्त्रश्रमादिकः सर्व्वः, कलाभ्यासश्च निर्ममे ॥ १३०॥ क्रमात् स प्राप तारुण्यं, तरुणीमानमर्द्दनम् । करोति विविधां क्रीडां, सुमित्रैः सह सर्व्वदा ॥१३१॥ §§ इतश्च नगरे तस्मिन् महेभ्योऽभून्महर्द्धिकः । नामतोऽमरचन्द्राख्यश्चन्द्रलेखाप्रियाऽस्य च ॥ १३२॥ तयोः सागरचन्द्रोऽभूत् पुत्रो दक्षः कलासु च । सदाचारविचारज्ञः, संस्तुतः सज्जनैर्जनैः ॥१३३॥
[ धर्मकल्पद्रुमः