________________
[२९५
सप्तमः पल्लवः]
दुस्साध्यं दोहदं मत्वा, नृपः पप्रच्छ मन्त्रिणं । क्षीणदेहाऽभवद्राज्ञी, कोऽत्रोपायो विधीयते ? ॥१०८।। विमृश्य सचिवः किञ्चित् , प्राह भूपं प्रति स्फुटम् । स्वामिन् ! बुद्धिप्रयोगेण, पूर्यतेऽत्रैष दोहदः ॥१०९॥ गृहजालान्तराच्चन्द्रे, भूमिस्थलजलभाजने । प्रतिबिम्बितेऽथ राज्याश्चन्द्रं पिबेति कथ्यते ॥११०॥ सान्धकारे ततो यावच्चन्द्रभ्रान्त्या पिबेज्जलम् । तावदाच्छाद्यते पुंसा, गृहच्छिद्रं शनैः शनैः ॥१११।। चन्द्रः पीत इति ज्ञाते, राझ्या सेत्स्यति दोहदः । विद्याधरास्तु दुस्साध्या, नृणां वैताढ्यसंस्थिताः ॥११२।। तथाप्ययमुपायोऽस्ति, कश्चिदत्रेन्द्रजालिकः । आकार्यतेऽथ तेनैव कार्यते चेति नाटकम् ॥११३।। वैताढ्यं खेचरांश्चापि, विद्याधरपुराण्यपि । तदेन्द्रजालिकः सर्वं, रचयिष्यति विद्यया ॥११४।। युष्माकं सुभटीभूता, एके तेऽपीन्द्रजालिकाः । राज्ञीदृष्टौ रणं कृत्वा, साधयिष्यन्ति खेचरान् ॥११५।। राजन्नित्थं कृते गर्भे, सन्तोषो द्राग् भविष्यति । गर्भतोषे हि राज्ञीयं, हर्षात् पुष्टा भविष्यति ॥११६।। मन्त्रिप्रोक्तमिदं सर्वं, कारयित्वाऽथ भुभुजा । प्रियायाः पूरितो वेगाच्चन्द्रपानादिदोहदः ॥११७।। गर्भस्य पूर्णकालेऽथ, शुभयोगे शुभे दिने । ग्रहेषु स्वगृहस्थेषु , स्वोच्चस्थेषु च केषुचित् ॥११८॥ सुलग्ने सौम्यवेलायां, निशि चन्द्रोदये सति । सुवारे शुक्लसप्तम्यां, राज्ञी पुत्रमजीजनत् ॥११९।। युग्मम् ।। नृपं वर्धापयामासुस्तदा दास्यादयो जनाः । सद्वर्धापनिकां राजा, ददौ तेभ्यो यदृच्छया ॥१२०।।