________________
5
10
151
20
25
]
इयद् दत्वा नरेशाय, देवो देवीयुतो गतः । ध्यानं सम्पूर्य्य भूपोऽपि प्रियायुक्तो मुदं दधौ ॥९५॥ एतस्मिन् समये कोऽपि, देव एको महर्द्धिकः । सम्पाल्य स्वायुरीशानस्वर्गाच्च्यवनमाप्तवान् ॥९६॥ पुष्पभद्रपुरे तस्मिन्, पुष्पचूलनरेशितुः । भार्यायाः पुष्पमालायाः, सोऽथ कुक्षाववातरत् ॥९७॥ सायं राज्ञी प्रतिक्रम्य, स्मृत्वा पञ्चनमस्कृतिम् । सुप्ता सुखेन शय्यायां स्वप्नमेवं तदैक्षत ॥९८॥ ईशानतः सुरः कोऽपि, भास्वद्रूपो महर्द्धिकः । आगत्य मद्गृहे तस्थौ, गीर्वाणगुणपूरितः ॥९९॥ पुनर्जानाति सा चन्द्र, आश्विनपूर्णिमानिशि । सहसागत्य मत्कुक्षौ, प्रविवेश मुखाध्वना ॥१००॥ जजागाराथ हृष्टा सा, संवीक्ष्य स्वप्नमीदृशम् ।
शय्यां विमुच्य गत्वाऽथ, नृपाग्रे तं न्यवेदयत् ॥१०१॥ राजोचे स्वप्नमाहात्म्यात्, कश्चित्स्वर्गाच्च्युतः सुरः । तव भावी सुतः प्रौढः, फलितो मे मनोरथः ॥१०२॥ श्रुत्वेति हर्षिता राज्ञी, पुण्यकृत्यं चकार सा । रराज बिभ्रती गर्भं, रत्नं रत्नखनिर्यथा ॥ १०३॥ यथा च वर्द्धते गर्भ, ऋद्धिवृद्धिस्तथा गृहे । यद्यत् प्रार्थयते राज्ञी, तत्तद्भूपेन पूर्यते ॥ १०४ ॥ प्राप्ते च सप्तमे मासे, महागर्भानुभावतः । सर्वाङ्गसुन्दरा दीप्ता, दधौ राज्ञीति दोहदम् ॥१०५॥ एवं जानाति चित्ते स्वे, चन्द्रं पीत्वा ततः परम् । वैताढये खेचरान् सर्वान् साधयामि समाधिना ॥ १०६ ॥ ईदृशे दोहदे जाते, दुष्पूरे बलिनोऽपि हि । तस्यासिद्धौ तदा राज्ञी, दुर्बलाभूद् दिने दिने ॥१०७॥
,
[ धर्मकल्पद्रुमः