________________
सप्तमः पल्लवः]
[२९३ सत्सार्मिकवात्सल्यं, सङ्घपूजान्वितं कृतम् । दीनोद्धारादिकं चक्रे, चक्रे मारिनिवारणम् ॥८४|| सन्तोष्य सर्वलोकांश्च, पश्चात् पारणकं कृतम् । जिनालये विशेषेण, तद्दिने चोत्सवः कृतः ॥८५।। सन्ध्याकाले दिने तस्मिन् पूजां कृत्वा जिनाग्रतः । कायोत्सर्गस्थितौ तौ द्वौ, जिनध्यानपरायणौ ॥८६॥ लयलीनोऽभवद्यावन्नृपो राज्ञीसमन्वितः ।
तावदाकाशमार्गेणागाद् यक्षो यक्षिणीयुतः ॥८७।। युग्मम् ॥ सच कीदृशः ?
श्यामस्त्रिनेत्रो द्विभुजाभिरामः, सुहंसयानो विजयाख्ययक्षः । 10 चन्द्रं दधद्दक्षिणपाणिपर्दो, वामे तथा मुद्गरमद्भुतं च ॥८८।। ज्वालादेवी पिशाङ्गा मृदुललितचतुर्दोभिराभासमाना, भक्ता चन्द्रप्रभस्य त्वरितवरतरा हस्तियानाधिरूढा । बिभ्राणा पाणियुग्मे निशिततममसिं दक्षिणे मुद्गरञ्च, स्फूर्जत्पशुञ्च वामे फलकमपि करे प्रीतये साऽस्तु देवी ॥८९॥ 15 प्रत्यक्षीभूय यक्षोऽसौ, यक्षिणीसहितस्तदा । उवाच वचनं चारु, चातुर्यगुणगर्भितम् ॥९०॥ अहो नरेन्द्र ! जानीहि, मां चन्द्रप्रभसेवकम् । तव पुण्येन तुष्टोऽहं, वरं याचस्व वाञ्छितम् ॥९१॥ युवयोस्तपसाऽऽकृष्टो, रञ्जितो जिनभक्तितः । अत्राहं विजयो यक्ष, आगतो यक्षिणीयुतः ॥१२॥ इत्थं श्रुत्वा च नत्वा तौ, राजोचे विनयान्वितः । देहि देवि ! सुतं भव्यमन्यैः सम्पूर्णमेव मे ॥९३।। भूयात् सुपुत्र इत्युक्त्वा, कृता वृष्टिः सुरेण च । स्वर्णषोडशकोटीनां, मणिकोटित्रयस्य च ॥९४।।
20
25