________________
[धर्मकल्पद्रुमः ततः शुक्लप्रतिपदि, ग्राह्यं च कवलद्वयम् । तृतीयादिष्विति ग्राह्या, ग्रासा एकैकवृद्धितः ॥७१॥ चतुर्दश्यां पञ्चदश, भवन्ति कवला इति । चैत्र्यां तु पूर्णिमायां स्याच्चतुर्धाहारवर्जनम् ॥७२॥ प्रतिपद्यपि कर्त्तव्य, उपवासस्तथैव च । तत्पारणे द्वितीयायां, कार्यमेकाशनं तपः ॥७३॥ ततश्चैकान्तराः कार्या, उपवासास्त्रयोदश । चतुर्दश्यां च वैशाख्यां, कार्यं षष्ठतपः पुनः ॥७४॥ एकाशनं पारणके, ह्येवं चान्द्रायणं तपः । सम्यक्त्वशीलयुक्तेन, कार्यमेतत् तपो महत् ॥७५॥ कार्यमावश्यकं तत्र, विशेषाद्देवपूजनम् । कथा पुण्यस्य कर्तव्या, कर्तव्या च कृपाऽङ्गिषु ॥७६॥ तपउद्यापनं पश्चात् , कर्त्तव्यमतिविस्तरात् । कार्यो वृक्षः सुवर्णस्य, तस्य मूलं च रूप्यजम् ॥७७॥ पत्राणि च प्रवालस्य, मणिसत्कफलानि च । कार्यं रूप्यमयं चन्द्ररूपं वृक्षस्य चोपरि ॥७८॥ चन्द्रप्रभजिनेन्द्राग्रे, ढौकनीयो महातरुः । चन्द्रप्रभजिनध्यानं, कार्यं यावत् तपोविधि ॥७९॥ सप्तक्षेत्रेषु सद्वित्तं, वपनीयं स्वशक्तितः । श्रीसाधर्मिकवात्सल्यं, कार्यं सङ्घार्चनान्वितम् ॥८०॥ इत्थं कृते महाराज !, तव सेत्स्यति वाञ्छितम् । भविष्यति सुतो भव्यो, निर्मलं कुरु तत् तपः ॥८१॥ इति श्रुत्वा प्रजाधीशो, हर्षितः प्रियया युतः । आरेभे सुमुहूर्ते च, गुरूक्तविधिना तपः ॥८२।। जाते तपसि सम्पूर्णे, क्षमायुक्तः क्षमापतिः । उद्यापनं ततश्चक्रे, सम्पूर्ण विधिसंयुतम् ॥८३।।
25