________________
[२९१
सप्तमः पल्लवः]
इतश्च समये तत्र, चारणर्षिः समागतः । वन्दापनाय भूपस्य, धर्ममव्याख्याकृतेऽपि च ॥५९॥ नृपेणोत्तमसंस्थाने, निवेश्य मुनिपुङ्गवः । ववन्दे परया भक्त्या, तया राज्याऽपि भावतः ॥६०॥ धर्माशिषं मुनिर्दत्त्वा, प्रारेभे धर्मदेशनाम् ।
अहो असारे संसारे, सारं सुकृतसेवनम् ॥६१॥ यतः- सर्पो हारलता भवत्यसिलता सत्पुष्पमालायते,
सम्पद्येत रसायनं विषमपि प्रीतिं विधत्ते रिपुः । देवा यान्ति वशं प्रसन्नमनसः किं वा बहु ब्रूमहे, धर्मो यस्य नभोऽपि तस्य सततं रत्नैः परं वर्षति ॥६२॥ श्रुत्वा सद्देशनां प्रान्ते, मुनि नत्वा नृपो जगौ । भगवन् ! ब्रूहि तत् सम्यग् , भवेद्येन सुतो मम ॥६३।। मुनिरूचेऽन्यसावा, वयं ब्रूमो न किञ्चन । कल्पवत्कामदं नित्यं, परं साधय सत्तपः ॥६४।। किं कुर्वेऽहं तपश्चैवं, राज्ञा पृष्टेऽवदद् गुरुः । पुत्रेच्छा यदि ते तर्हि, कुरु चान्द्रायणं तपः ॥६५।। नृपोऽवादीत् कृपां कृत्वा, तत्तपो विधिपूर्वकम् । प्रभो ! कथय येनाहं, साधयामि प्रियायुतः ॥६६।। गुरुर्जगाद फाल्गुन्यां, प्रारम्भः प्राग् विधीयते । वैशाखीपूर्णिमायां तु , पूर्णं भवति तत्तपः ॥६७॥ फाल्गुनीपूर्णिमायां प्रागुपवासो विधीयते । चतुर्विधाहारमुक्तस्ततश्च प्रतिपद्दिने ॥६८॥ आहारे कवला ग्राह्याः, पञ्चदश सुमानतः । द्वितीयायां तिथौ ग्राह्याः, कवलाश्च चतुर्दश ॥६९॥ एवं तिथौ तिथौ प्रोक्ता, कवलैकैकहीनता । अमावास्यादिने ग्रास एक एव च गृह्यते ॥७०॥