________________
Shr
10
[धर्मकल्पद्रुमः तदा प्राणप्रिया प्रोचे, शृणु स्वामिन् ! यथातथम् । कष्टं मेऽस्त्यनपत्यत्वं, यन्मां व्यथति शल्यवत् ॥४६॥ ते हि नारीनरा धन्या, यदुत्सङ्गे स्तनन्धयाः । रुदन्ति च रमन्ते वा, जल्पन्त्यव्यक्तभाषणैः ॥४७॥ घनं किं कथ्यते स्वामिन् !, विना सन्तानमद्य मे । स्फारहारादिशृङ्गारोऽप्यसार: स्वप्नसन्निभः ॥४८॥ तच्छ्रुत्वा नृपतिश्चित्ते, ततोऽधिकमचिन्तयत् । सत्यं वक्ति प्रिया ह्येषा, येन मे नास्ति सन्ततिः ॥४९।। दृश्यते कुलविच्छेदः, सुतहीनस्य मेऽधुना । किङ्करोमि क्व गच्छामि, किं स्मरामि समीहितम् ? ॥५०॥ मम दुष्टेन दैवेन, न्यूनमन्यत्कृतं न किम् ? । एकं सुतसुखं मह्यं, किं न दत्तं दुरात्मना ? ॥५१॥ दोषं दत्त्वेति दैवस्य, पुनर्भूपो व्यचिन्तयत् । अहो मे प्राक्तनं पुण्यं, हीनं नूनं प्रवर्त्तते ॥५२॥ भवेऽस्मिन्नपि तत्पुण्यं, भावनासहितं मया । प्रारभ्यते विशेषेण, येन सिध्यति वाञ्छितम् ॥५३।। ततो भूपोऽवदत् पत्नी, खेदं मा कुरु मानसे । उपायं तं करिष्यामि, येन भावी सुतोत्तमः ॥५४।। साध्यते प्रथमं पुण्यं, पुण्यतः किङ्कराः सुराः ।
सुराः समीहितं दद्युः, साधितास्तपसा भृशम् ॥५५॥ यतः- निम्नेन तोयं हरितेन गावः, शान्तेन बाला विनयेन सन्तः ।
अर्थेन चान्ये तपसा च देवाः, साध्या हि लोकाश्च हितप्रियेण ॥५६॥ भेदा धर्मस्य चत्वारः, प्रोक्ता ये श्रीजिनेश्वरैः । तन्मध्ये भावतः सेव्यं, तपो वाञ्छितसिद्धये ॥५७॥ तपोमाहात्म्यमेवं हि, ज्ञात्वा तत्साध्यतां प्रिये ! । सन्तोषं भज चित्ते च, हर्ष धेहि शुचं त्यज ॥५८॥
15
20
25