________________
[२८९
सप्तमः पल्लवः]
सुतं विना न भाति स्त्री, यथा चन्द्रं विना निशा । सर्वत्र लभते मानं, विधवापि सुतान्विता ॥३३॥ विधवापि तथा नारी, राजते पुत्रदीपिता । दीपोत्सवेन कलिता, अमावास्यापि सिद्धिदा ॥३४॥ गन्धहीनं यथा पुष्पं, तटाकमिव निर्जलम् ।
कलेवरमिवाजीवं, धिग् नारीजन्म निःसुतम् ॥३५॥ गाथा- जम्मु निरत्थउ तीए, जीए महिलाइ मम्मणुल्लावो ।
धूलीधूसरदेहो, पुत्तो न रमेइ उच्छङ्गे ॥३६॥ [ ] उपालम्भान् ददौ साऽथ, दैवं प्रतीत्यनेकधा । कृतस्त्वयि विनाशः किं ?, येनाहं विफलीकृता ॥३७|| सूनुशून्यं कथं दत्तं, राज्यं प्राज्यमिदं विधे ! । किञ्चिःखं हि जीवानामकृत्वा त्वं न तप्यसि ॥३८।। मया पूर्वभवे किं वा, साधूपकरणं हृतम् ? । पशुपक्षिनराणां वा, बालनाशः कृतः किमु ? ॥३९॥ आत्मानमिति निन्दन्ती, शोचन्ती निजकर्म च । मुञ्चन्ती चाश्रुधारां सा, विललाप घनं तदा ॥४०॥ तस्मिन्नेव क्षणे राजा, गृहमध्ये समागतः । श्यामानना च शोचन्ती, दृष्टा प्राणप्रिया तदा ॥४१॥ राजाप्यथ धरन् दुःखं, स्माह पत्नी प्रति स्फुटम् । कथं रोदिषि हे देवि ! मम कष्टं महद्भवेत् ॥४२॥ राज्ञी प्रोचे शृणु स्वामिन्निर्भाग्याऽहं हि निर्मिता । पूर्वपापप्रभावेण, कर्महीना कलङ्किता ॥४३॥ वृथा मे राज्यसौख्यानि, वृथा मे जन्म जीवितम् । यौवनं भोगसंयुक्तं, निष्फलं दिनदीपवत् ॥४४॥ इति श्रुत्वा नृपोऽवादीत् , खेदः किं शुभलोचने ! । व्यक्तं ब्रूहि ममागे त्वं, कारणं कमलानने ! ॥४५॥
15
25