________________
5
10
15
20
25
८]
[ धर्मकल्पद्रुमः
अज्ञानध्वान्तसन्धाने, ध्याने सिद्धिपुराध्वनि । अध्वगस्यात्मनो भाति, भावना रत्नदीपिका ॥२०॥ सद्दानशीलतपसां भवयुद्धाय धावताम् । अग्रेसरी भवत्येका, भावनैव महाभटै: ( टा ) ॥२१॥ चन्द्रोदयनरेन्द्रस्य, भावोपरि कथां शृणु । यां श्रुत्वा जायते शुद्धं, मानसं शारदेन्दुवत् ॥२२॥ तथाहि जम्बूद्वीपेऽस्ति, क्षेत्रं भरतसंज्ञकम् । पुष्पभद्रपुरं तत्र, भद्रसन्ततिसंयुतम् ॥२३॥ पुष्पचूलो नृपस्तत्राभवज्जातिसुपुष्पवत् । येनेदं सकलं विश्वं, यशोगन्धेन वासितम् ||२४|| पुष्पमाला प्रिया तस्य, प्रेमाढ्याच प्रमोदिनी । सुभगा शुद्धशीला च, पतिचित्तानुवर्त्तिनी ॥२५॥ तया समं स हर्षेण, रममाणो महीपतिः ।
न जानाति वयो गच्छत्, वेत्त्यायान्तीं च नो जराम् ||२६||
तथा च- आदौ चित्ते ततः काये, सतां सञ्जायते जरा । असतां तु पुनः काये, चित्ते नैव कदाचन ॥२७॥ पूर्व्वे वयसि यः शान्तः, स शान्त इति भे मतिः । धातुषु क्षीयमाणेषु, शमः कस्य न जायते ? ॥२८॥ मोहेनैतन्न जानाति, स राजा कामलोलुपः ।
भोज विविधान् भोगान् परं तस्य न सन्ततिः ॥२९॥ एकदा तस्य भूपस्य, पत्नी सा पुष्पमालिका | गवाक्षस्था निरैक्षिष्ट, सौधाधो वरवापिकाम् ॥३०॥ ददर्श तत्र हंसीञ्च, लालयन्तीं निजान् शिशून् । स्वेच्छया ददतीं चूर्णिं, स्पृशन्तीं मूर्ध्नि बालकान् ॥३१॥ तां प्रेक्ष्य हृदि सा दध्यौ, हा मे जन्म गतं वृथा । न सन्तानसुखं प्राप्तं, जङ्गमा वन्ध्यवल्ल्यहम् ॥३२॥