________________
40
सप्तमः पल्लवः]
[२८७ काले कालत्रयज्ञानं ६, महाकाले च कीर्तितः । स्वर्णरूप्यलोहमणिप्रवालानाञ्च सम्भवः ७ ॥९॥ युद्धनीतिः समग्रापि, सर्वप्रहरणानि च । तनुत्राणादि योधानां, योग्यं माणवके भवेत् ८ ॥१०॥ तूर्याङ्गाणि समस्तानि, वाद्यञ्चापि चतुर्विधम् । निधौ सञ्जायते संख्ये, नाट्यनाटकयोर्विधि: ९ ॥११॥ तेषु पल्योपमायुष्का, वसन्ति खलु देवताः । निधानसमनामानः, समये परिकीर्तिताः ॥१२॥
___ चतुर्दश रत्नानि नव निधानानि समाप्तानि ॥ $वैराग्यद्रुममञ्जरी कुचरितग्रन्थिच्छिदाकर्त्तरी,
ज्ञानेन्दुद्युतिशर्वरी भवचयाम्भोजप्रजाधूमरी । श्रेयःपल्लववल्लरी शुभदिनारम्भध्वनेझल्लरी, चित्तान्तःप्रमुदित्वरी भवरुजां स्याद्भावना जित्वरी ॥१३॥ अथोचे श्रीसुधर्माहः, श्रीमद्वीरजिनं प्रति । भगवंस्त्वत्प्रसादेन, श्रुतं शाखात्रयं स्फुटम् ॥१४॥ दाने शीले च तपसि, धर्मकार्येऽपेऽपि च । सहायो यो मतस्तस्य, भावस्य वद किं फलम् ? ॥१५॥ इति प्रश्नो कृते वीरो, घनगम्भीरया गिरा । प्रोचे शृणु सुधर्म ! त्वं, तुर्यशाखाफलं महत् ॥१६॥ कृषौ सुवातः किल वृद्धिहेतुः, शिशौ स्वमाता सुकृते कृपा च । 20 राज्ये सुनीतिः प्रणये प्रतीति-स्तथा हि धर्मे शुभभावना च ॥१७॥ सुस्वादतायै लवणं रसानां, यथाऽखिलानामपि दृष्टमिष्टम् । धर्मत्रयस्यापि विशेषसिध्यै, तथैव भाव्यो भुवि भावधर्मः ॥१८॥ घनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं, क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत् ।
25 तपस्तीवं तप्तं चरणमपि चीर्णं चिरतरं , न चेच्चित्ते भावस्तुषवपनवत्सर्वमफलम् ॥१९॥ [सिं.प्र./८८]