________________
5
10
151
20
25
२४]
[ धर्मकल्पद्रुमः
जम्बूदत्तेति नामाथ, पित्रा तस्य विनिर्ममे । सर्पो विंशतिवर्षान्ते, नरोऽभूद् देवयोगतः ॥ ६१०॥ नागश्रीनामतः कन्यां स पित्रा परिणायितः । चत्वारस्तनया जाता, जम्बूदत्तस्य च क्रमात् ॥६११॥ सार्द्धं महेभ्यपुत्रीभिश्चत्वारः परिणायिताः । वृक्षवत्पुत्रपौत्राद्यैर्ववृधे स धनप्रियः ||६१२॥ धनप्रियं विना सर्व्वे, जिनधर्मेण भाविताः । प्रान्ते प्रव्रज्य जम्बूः स, सभार्यः सिद्धिभागभूत् ॥६१३॥ अन्ये सर्व्वेऽपि सत्कृत्यं कृत्वा स्वर्गं गताः क्रमात् । धनस्तु तद्वियोगार्त्तः, पतितोऽथार्त्तिसागरे ॥६१४|| महामोहविमूढात्मा, चित्तसन्तापकारकः । अजानन् धर्ममाहात्म्यं, स शोकं हृदये दधौ ॥६१५॥ मम पुत्राश्च मे लक्ष्मीर्गृहिणी मे गृहं मम । इत्यार्त्तवशतो मृत्वा, गतोऽथैकेन्द्रियेषु सः ॥६१६॥ ततोऽनन्तभवावर्ते, मोहाद् धनप्रियो वणिक् । पतितस्तेन नो कार्यो, महामोहो मनीषिभिः ||६१७|| श्रुत्वैवं पुरुषोत्तमो नरपतिः संवेगरङ्गं दधन्नत्वा सूरिवरं जगाम सदने राज्यञ्च शिक्षान्वितम् । पुत्राय प्रददौ च मन्त्रिनिवहं चापृच्छ्य सन्तुष्टधीः, चारित्रग्रहणोद्यतः स्वयमभूत् संसारविच्छित्तये ॥६१८॥ चक्रे जिनेषु ध्वजपूजनाद्यं, गुरुञ्च सङ्घ समपूजयच्च । हीनेषु दीनेषु ददौ धनं स, सन्तोषयामास समस्तलोकान् ॥६१९॥ भावारिषड्वर्गजयाय राजा, ययौ गुरोः पार्श्वमिभाधिरूढः । व्रतञ्च शिक्षासहितं गृहीत्वा, चकार तीव्राणि तपांसि भावात् ॥ ६२०॥ श्रीषेण - हरिषेणौ तौ, श्रीपुरुषोत्तमाङ्गजौ । पैतृकीं पदवीं प्राप्य, पालयामासतुश्चिरम् ॥६२१॥