________________
षष्ठः पल्लवः]
[२८५ संपाल्य वर्षलक्षायू , राजर्षिः पुरुषोत्तमः । सम्प्राप्तकेवलः प्राप, शान्ति-कुन्थ्वन्तरे शिवम् ॥६२२।। वीरो वदति हे सभ्या !, यथा श्रीपुरुषोत्तमः ।
महद्धिं तपसा प्राप, लभन्तेऽन्ये तथा सुखम् ॥६२३॥ यतः- यद् दूरं यद् दुराराध्यं, यच्च दूरे व्यवस्थितम् ।
तत्सर्वं तपसा साध्यं, तपो हि दुरतिक्रमम् ॥६२४॥ [आ.उ./५५] काव्यम्- श्रीवीरोऽथ दृढप्रहारिमुनिप: स्वीयप्रतिज्ञादृढः,
श्लाघ्यो बाहुबलिर्बलोऽप्यविचलः सन्नन्दिषेणो व्रती । आनन्दः सदुपासको व्रतरतिः श्रीसुन्दरीत्यादिकाः, कर्मोन्मूलनकोविदेन तपसा देवासुरैर्वन्दिताः ॥६२५॥ कारण्यदवानलोऽभिलषिते सत्कामधेनूपमं, दुष्टारिष्टविनाशकं गुणकरं सौभाग्यसंवर्द्धनम् । श्रीमन्मुक्तिनरामरेशपदवीसम्पादने प्रत्यलं, शान्तं कान्तमसङ्गतावरतपः शक्त्या जिनेन्द्रोदितम् ॥६२६॥ धन्याः केऽपि मनोभवैकभवने तारेऽपि तारुण्यके, त्यक्त्वा मित्रकलत्रपुत्रविभवानुग्रं तपन्ते तपः । माङ्गल्यं त्रिदशाच्चितं गदहरं कर्मद्रुमाग्निस्तपो, भव्यैः सेवयमनिन्दितं जितमदैर्मुक्त्यै हितार्थस्पृहैः ॥६२७॥ अहो भव्यजना ! एवं, प्रोक्ता पुण्यद्रुमे मया । तृतीयैषा तप:शाखा, सेवनीया शुभङ्करी ॥६२८॥ इति श्रीवीरदेशनायां श्रीधर्मकल्पद्रुमे चतुश्शाखिके तृतीयतपःशाखायां श्रीपुरुषोत्तमनृपाख्याने षष्ठः पल्लवः,
तृतीया तपःशाखा च समाप्ता ॥६॥
15
20