________________
षष्ठः पल्लवः ]
[ २८३
निवेश्य स्वपदेऽन्येद्युर्धन्याकुक्षिभवं सुतम् । पित्रादिभिः समं दीक्षां, सुनन्दगुरुतोऽग्रहीत् ॥५९८॥ व्रतं सुतीव्रं मुनिपुण्यसार - श्चिरं प्रपाल्यानशनेन मृत्वा । देवत्वमाप्तोऽथ सुमानुषत्वं, क्रमेण मोक्षस्य सुखान्यवाप ॥५९९ ॥ इति श्रीपुण्यसारकथा समाप्ता ॥
§§ येनानीतः कुलममलिनं लम्भितश्चारु रूपं, श्लाघ्यं जन्म श्रियमुदयिनीं बुद्धिमाचारशुद्धाम् । पुण्यान् पुत्रानतिशयवतीं प्रेत्य च स्वः समृद्धि, पुण्यं नो चेत्तमु(दु) पकुरुते यः कुतोऽसौ कृतज्ञः ? ॥ ६०० ॥ श्रुत्वैवं पुण्यमाहात्म्यं, राजा श्रीपुरुषोत्तमः । प्रियाद्वितयसंयुक्तः, प्रपेदे द्वादशव्रतीम् ॥६०१॥ पुनरूचे गुरुर्भूप !, महामोहे पतन्ति ये । तैः संसारमहाकूपान्निर्गन्तुं नैव शक्यते ॥६०२॥ एषा भार्या सुता गेहं धनं ममेति मोहतः । एकेन्द्रियत्वमाप्नोति, धनप्रियवणिग् यथा ॥ ६०३॥ Ss कुशार्त्तविषये शौर्यपुरे धनप्रियो वणिक् । धनश्रीस्तत्प्रिया देवान्, सन्तानार्थमपूजयत् ॥ ६०४|| जम्बूदेवेन तुष्टेन, सुतोऽभूत् सर्परूपभृत् । तदा धनप्रियो भूयो देवमाराध्य पृष्टवान् ||६०५।। सुतः किं सर्परूपोऽस्या, देवोऽवक् शृणु कारणम् । प्राग्भवेऽपहृतं रत्नं, स्वसपत्न्या धनश्रिया ||६०६|| विंशतिप्रहारान्तेऽथ, तस्या रत्नं तयाऽप्पितम् । मृत्वा काले सपत्नी सा, सञ्जाता व्यन्तरी सुरी ||६०७|| रत्नापहारवैरेण, सुतः सर्पः कृतस्तया । अतो विंशतिवर्षान्ते, नरो भावी सुतस्तव ॥ ६०८|| तच्छ्रुत्वा दम्पती तौ तं, नागं क्षिप्त्वा करण्डके । शर्करादुग्घपानाद्यैः, पालयामासतुर्भृशम् ॥६०९॥
5
10
15
20
25