________________
5
10
151
20
25
२]
प्रीतिः साधुषु बन्धुता बुधजने जैने रतिः शासने, यस्यैवं जनरञ्जको गुणगणः स श्रावकः पुण्यभाक् ॥५८५ ॥ प्रणम्य धनमित्रस्तं, पप्रच्छेदमतुच्छधीः ।
प्रभो ! मत्सूनुना किं किं सुकृतं प्राग्भवे कृतम् ? ॥५८६ ॥
येनास्य गृहदासीव, लक्ष्मीर्गृहमधिश्रिता ।
सौभाग्यं वपुरारोग्यं, राजादिजनमान्यता ॥ ५८७ ॥ युग्मम् ॥ सूरिः प्राह पुरेऽत्रैव, पुराऽसाविभ्यसूरभूत् । धनदाह्वः प्रकृत्यैव, कृतज्ञस्त्यागसुन्दरः ॥५८८॥ संयोगे सद्गुरोर्देशविरतिं प्रत्यपद्यत । जगृहे नियमं पञ्चोदुम्बरादिकवस्तुनः ||५८९|| सप्तक्षेत्र्यां वित्तबीजमवपन्निजकं सदा । प्रव्रज्यामपि शिश्राय, सद्गुरोः पुरतोऽन्यदा ॥ ५९०॥ सिद्धान्तपाठविनयतपःक्षान्त्यादिसद्गुणैः ।
विभूषितश्चिरं सम्यक् स श्रामण्यमपालयत् ॥ ५९१।। प्रपद्यानशनं प्रान्ते, विपद्य च समाधिना । कल्पे तृतीये संजज्ञे, शक्रसामानिकः सुरः ॥५९२॥ तत्राद्भुतान् दिव्यभोगान्, भुक्त्वा च्युत्वाऽऽयुषः क्षये । तत्पुण्यशेषादत्रैव, त्वत्पुत्रः समपद्यत ॥५९३॥ जातिस्मृत्या स्वप्राग्भवौ, पुण्यसारोऽपि तौ मुदा । ज्ञात्वा सूरिं प्रणम्यैवभवदद्विहिताञ्जलिः ॥५९४॥ जातिस्मृत्या मयाप्येतत् सर्व्वं ज्ञातं मुनीश्वर ! । तत्सम्प्रत्यपि तेष्वेव, यतिष्येऽहं गुणेष्वपि ॥५९५॥ इत्युक्त्वा देशविरतिं, स प्रपेदे तदा गुरोः । राज्ञा पित्रा तथा मात्रा, पत्न्यापि च समन्वितः ॥५९६ || गुरुं नत्वा ययुः स्वस्वगृहे श्रेष्ठिभवोऽथ सः । देवपूजादिनिरतः, श्राद्धधर्म्ममपालयत् ॥५९७॥
[ धर्मकल्पद्रुमः
,