________________
षष्ठः पल्लवः ]
गत्वा भूयोऽपि राज्ञोऽग्रेऽकथयत् तेन तानपि । तथैवानाय्य भूभर्त्ता, भाण्डागारे न्यवेशयत् ॥५७३॥ तृतीयेऽपि दिने वीक्ष्य, पुण्यसारस्तथैव तान् । गत्वाऽभ्यधान्नृपस्याग्रे, पुनः सोऽप्यतिविस्मितः ॥५७४|| तानप्यानाययद्यावत्तावन्मन्त्रीदमभ्यधात् । पूर्वानायितहैमाष्टकुम्भशुद्धिं विधाय ॥५७५ ॥ पूर्वमेवाथ राज्ञापि, कारिते तद्विलोकने । श्रीगृहस्यान्तरे पुम्भिस्तदभावोऽभ्यधीयत ॥५७६॥ सत्येन पुण्यसारोऽपि (सि), पुण्यसार ! त्वमत्र भोः ! | यस्याभिसारिकेव श्रीरेत्योकोऽभिसृता स्वयम् ॥५७७॥ अन्यथा हेमकुम्भास्ते, मया लोभवशादिह । आनायिता अपि कथं, पुनस्त्वन्मन्दिरं श्रिताः ? ॥ ५७८ ॥ राज्ञाऽतिविस्मितेनेति, प्रोच्य तस्य निजे पुरे । अभ्यर्थ्य सादरं श्रेष्ठि-श्रेष्ठता तत्र निम्मे ॥५७९ ॥ सन्मान्य वस्त्रालङ्कारैः, स्वप्रधानजनैः समम् । नृपेण पुण्यसारस्तु, प्रहितः स्वगृहं ययौ ॥ ५८० ॥ एवं तत्र पुरेऽनेकपौरलोकनिषेवितः । कमलां सफलां स्वस्य, दानादिनिरतो व्यधात् ॥५८१॥ तत्रैव नगरेऽन्येद्युः, सुनन्दः श्रुतकेवली । आगत्य समवासार्षीत्, सुरिर्भूरिविनेययुक् ॥५८२॥ तं नन्तुमगमद् भूपः, पौरलोकसमन्वितः । पुण्यसारोऽपि च पितृमातृपत्न्यादिभिर्युतः ॥५८३॥ अद्वन्द्वास्तत्पदद्वन्द्वं, नत्वा सर्व्वेऽप्युपाविशन् । उवाच सोऽपि सद्धर्म्मवाचं वाचंयमाग्रणीः ||५८४ ॥ यतः - सर्व्वज्ञो हृदि वाचि तद्गुणगणः काये च देशव्रतं, धर्मे तत्परता परः परिणतौ बोधो बुधश्लाघ्यता ।
[ २८१
5
10
15
20
25