________________
७]
[धर्मकल्पद्रुमः अथ सोत्थाय तं स्वप्नं, पत्युरग्रे न्यवेदयत् । सद्भाग्यस्ते सुतो भावीत्यभ्यनन्दत् स तां मुदा ॥५६०।। क्रमात् पुत्रः समुत्पेदे, तस्या लक्षणलक्षितः । हृष्टस्तज्जन्मनि श्रेष्ठी, वर्धापममचीकरत् ॥५६१।। अगण्यपुण्यतां तस्य, ज्ञात्वा स्वप्नानुसारतः । पुण्यसार इति श्रेष्ठी, सुतस्य विदधेऽभिधाम् ॥५६२।। पद्मात् पद्मान्तरं हंस, इव गच्छन् सरोवरे । करात् करान्तरं तत्र, स व्रजन्नभ्यवर्द्धत ॥५६३।। श्रेष्ठी ग्रासावियुक्तोऽभूत् तज्जन्मदिवसादपि । स्यादभङ्गरभाग्यानां, योगे किं किं न वा शुभम् ? ॥५६४॥ स जग्राहोचिते काले, कला योग्या: कलागुरोः । पुपोष रूपलावण्ये विशेषाद्यौवनोन्मुखः ॥५६५।। अथान्यस्येभ्यस्य सुतां, रूपादिगुणविश्रुताम् ।
धन्याभिधानां तां श्रेष्ठी, महा पर्यणाययत् ॥५६६॥ यतः- प्रियानुकूला कलहेन वर्जिता, प्रियंवदा निर्मलशीलशालिनी ।
स्वरूपसौन्दर्यविनिर्जिताप्सरा, भवेत् सुपुण्यस्य गृहे सुगेहिनी ॥५६७॥ पुण्यसारोऽन्यदा रात्रौ, सुखसुप्तः स्ववेश्मनि । अहं त्वद्गृहमेष्यामीत्युक्तो देव्या श्रिया स्वयम् ॥५६८॥ प्रातः समुत्थितो वेश्मचतुष्कोणेषु सोऽद्भुतान् । सौवर्णकलशान् वीक्ष्य, चेतस्येवमचिन्तयत् ।।५६९।। लक्ष्म्या यदुदितं रात्रौ, सत्यीचक्रे तयेति तत् । कदाप्यनर्थः स्यादेषां, गृहे खलगिरा नृपात् ॥५७०॥ एवं विमृश्य स क्षमापपावें गत्वा ततोऽभ्यधात् । आनाययन्निजनरै, राजा तान् विस्मितो हृदि ॥५७१॥ श्रीगृहेऽस्थापयत् सर्वान् , द्वितीयदिवसेऽप्यथ । पुण्यसारः प्रगे दृष्ट्वा, हेमकुम्भांस्तथा गृहे ॥५७२।।
15
25