________________
षष्ठः पल्लवः]
[२७९ तपोदयादिकं पुण्यं, यत्कृतं पूर्वजन्मसु । तेन त्वं प्रेयसीयुक्तः, प्राप राज्यादिकं सुखम् ॥५४८॥ पूर्वं जातिस्मृतित्वेन, जानाति प्राग्भवं नृपः । विशेषाद् गुरुवाक्येन, सर्वं सत्यममन्यत ।।५४९।। पुनः पुण्यफलं ज्ञातुं , विशेषात् पृष्टवान्नृपः । दानशीलतपोभावमध्ये कस्याधिकं फलम् ॥५५०।। गुरुरूचे चतुर्धापि, धर्म: संसेवितो नृप ! ।
नानाविधं फलं दत्ते, परं भावेन संयुतः ॥५५१॥ यतः- दानं दारिद्मनाशाय, शीलं दुर्गतिनाशनम् ।
तपः कर्मविनाशाय, भावना भवनाशिनी ॥५५२॥ दानं तपो देवपूजा, दाक्षिण्य दक्षता दमः । शीलं विवेक इत्यादि, धर्माङ्गानि विदुर्बुधाः ॥५५३॥ यथा पञ्चेन्द्रियः प्राणी, अङ्गोपाङ्गैविराजते । तथा जिनोक्तधर्मोऽयं, सर्वाङ्गैः शोभते भृशम् ॥५५४॥ कन्दः कल्याणवल्लयाः सकलसुखफलप्रापणे कल्पवृक्षो, दारियोदीप्तदावानलशमनघनो रोगनाशैकवैद्यः । श्रेयःश्रीवश्यमन्त्रो विगलितकलुषो भीमसंसारसिन्धोस्तारे पोतायमानो जिनपतिगदितः सेवनीयोऽत्र धर्मः ॥५५५॥ यथाऽज्जितं पुरा पुण्यं, पुण्यसारेण धीमता ।
श्रुत्वोदाहरणं तस्याराध्यं पुण्यं सदा तथा ॥५५६।। तथाहि- पुरं साकेतमित्यस्ति, श्रियां सङ्केतभूरिव ।
तत्र नाम्ना तथा धाम्नाऽप्यभूद् भानुप्रभो नृपः ॥५५७।। तत्राभवन् मितधनो, धनमित्राऽभिधो गृही । गुणैरप्यनुरूपाऽऽसीत् , धनश्रीस्तत्प्रिया वरा ॥५५८॥ एकदा सा निशाशेषेऽनेकरत्नोत्कराद्भुतम् । हेमकुम्भं विलोक्यास्ये, प्रविशन्तमजागरीत् ॥५५९॥
15
25