________________
[धर्मकल्पद्रुमः सचित्ततृणकाष्ठानि, पत्रपुष्पफलानि च । वर्जयामास नागेन्द्रो, भुङ्क्ते स्म प्रासुकानि च ॥५३५।। ईर्यासमितिसंयुक्तो, दयया सञ्चचार सः । शान्तात्मा च तपश्चक्रे, दुस्सहं पूर्वजन्मवत् ॥५३६।। तत्याज हस्तिनीसङ्गं, मुनिवाक्यप्रबोधतः । जातिस्मृत्यनुभावात् स, पुण्यमेवमपालयत् ॥५३७।। तद्वने श्रीयुगादीशप्रसादोऽभूत् सतोरणः । कृतो मलयदेव्या यो, जिनाार्थं विनोदकृत् ॥५३८॥ स हस्ती हस्तिनीयुक्तो, जिनवन्दनहेतवे । नित्यं जिनालये याति, कालमेवं निनाय च ॥५३९।। अन्यदा तद्वने दैवाद्दावाग्निः समजायत । प्राक् कृतेषु स्थण्डिलेषु , दवभीतो ययौ गजः ॥५४०॥ वनसत्त्वैः स्थण्डिलानि, पूरितानि तदा भृशम् । पञ्चमस्थण्डिलस्यान्ते, प्रियायुक्तः स्थितो गजः ॥५४१।। मा यान्तु मद्भयत्रस्ता, अमी जीवा दवानले । दयया चिन्तयित्वेति, तस्थौ संवृत्य तत्र सः ।।५४२।। वातेन प्रेरिता तत्र, दवज्वाला समागता । वह्निना हस्तिनी दग्धा, स्थण्डिले कूणसंस्थिता ॥५४३।। हस्ती पानीयमानीय, मोहात् सिषेच हस्तिनीम् । कुर्वन् गमागमौ सोऽपि, पश्चाद् दग्धो दवाग्निना ॥५४४।। नमस्कारं स्मरन्तौ तौ, विधायानशनं तदा । धर्मध्यानपरौ भूत्वा, सौधर्मेऽभवतां सुरौ ॥५४५।। च्युत्वाऽथ स्वर्गतो राजन् !, जातस्त्वं पुरुषोत्तमः । जाता च हस्तिनीजीवः, कमलश्रीस्तव प्रिया ॥५४६।। विद्याधरभवे मोहात् परनारी हृता त्वया । प्राप्तस्त्वं कर्मणा तेन, तिर्यग्योनिं तया सह ॥५४७॥
15
25