________________
षष्ठः पल्लवः ]
यतः
यतः
प्रचण्डशुण्डादण्डोग्रो, दुर्द्दन्तो दीर्घदन्तभृत् । दुस्सहोवनसत्त्वानां, दुर्निरीक्ष्यो महाबलः ॥५२३||
क्रमेण वर्द्धमानोऽथ, विन्ध्याचल इवापरः ।
अत्युच्चः स गजो जात, ऐरावणसमः शुभः ॥५२४॥ युग्मम् ॥ रणचूडप्रिया पश्चाद्वैधव्येन प्रपीडिता । भर्तुर्वियोगविधुरा, सञ्जाताऽतीव दुःखिता ॥५२५॥
विभूतिस्त्यागशून्येव, सत्यशून्येव भारती ।
विद्या विनयशून्येव, न भाति स्त्री पतिं विना ॥ ५२६ ॥
मानो दर्पोऽप्यलङ्काराः, कुलपूजा च बन्धुषु । पुत्रे भृत्ये जने चाज्ञा, वैधव्येन प्रणस्यति ॥ ५२७॥
सा च दुःखार्दिता मृत्वा, विन्ध्याचलमहावने । उत्पन्ना करिणी तत्र, हस्ती यत्राऽस्ति तत्पतिः ॥ ५२८ ॥ तां दृष्ट्वा रणचूडेभस्तत्पृष्टि कामविह्वलः । नामुञ्चत् पूर्वमोहेन, मोहस्य गतिरीदृशी ॥ ५२९ ॥ अर्द्धाङ्गे गिरिजां बिभर्त्ति गिरिशो विष्णुर्वहत्यन्वहं, शस्त्रश्रेणिमथाक्षसत्रवलयं धत्ते च पद्मासनः । पौलोमीचरणाहतिं च सहते धृष्टः सहस्त्रेक्षणस्तन्मोहस्य विजृम्भितं निगदितं तिर्यग्जने का कथा ? ॥५३०॥ सकरी करिणीयुक्तश्चिक्रीड स्वेच्छया वने । रेवोत्तुङ्गतरङ्गैश्च चकार जलखेलनम् ॥५३१॥
अन्यदा तद्वने कश्चित्, मुनिर्ज्ञानी समागतः । मुनिः दृष्ट्वा गजः क्रोधाद् दधावे तं प्रति द्रुतम् ॥५३२॥
मुनिना स तपोलब्ध्या, स्तम्भितः कुञ्जरस्तदा ।
स शान्तो मुनिपादाब्जान् ववन्दे हस्तिनीयुतः ॥५३३॥
[ २७७
,
स पूर्व्वभववृत्तान्तैः साधुना प्रतिबोधितः ।
सम्यक्त्वं च तदा भेजे, जातिस्मृत्या प्रियायुतः || ५३४ ||
5
10
111
15
20
25