________________
[धर्मकल्पद्रुमः सप्तदशसागरायुर्भुक्त्वाऽथ स्वर्गतश्च्युतः । देवः संवरजीवः स, राज्ञीकुक्षाववातरत् ॥५१०॥ समये सुषुवे साऽथ, रणचूडाभिधं सुतम् । क्रमेण वर्द्धितः सोऽपि, जज्ञे विद्याविशारदः ॥५११।। अन्यदा रणचूडेन, व्रजता व्योम्नि कस्यचित् । वाणारस्यां युवत्येका, दृष्टा सद्रूपधारिणी ॥५१२॥ रागतो विद्यया हृत्वा, सा नीता निजसद्मनि ।
विषयासक्तचित्तेन, कृता प्रियतमा निजा ॥५१३॥ यत:- किं न कुर्य्यान्न किं दद्यात् , किं न गच्छेत् न किं वदेत् ।
क्व च न प्रविशेज्जन्तुर्बाधितो विषयेच्छया ॥५१४॥ तीव्राभिलाषतोऽत्यन्तं, सेवे विषयजं (सिषेवे भोगजं) सुखम् । कालेन कियता तस्य, देहत्रुटिरभूत् ततः ॥५१५।। राजयक्ष्मादिरोगाश्च, तस्याङ्गे जज्ञिरे भृशम् ।
अतिसम्भोगतो यस्माद्रोगोत्पत्तिः प्रकीर्तिता ॥५१६।। यतः- कम्पः स्वेदः श्रमो मूर्छा, भ्रमिग्लानिर्बलक्षयः ।
राज्यक्ष्मादिरोगाश्च, भवेयुमैथुनोत्थिताः ॥५१७॥ [ यो.शा./२/७८ ] यतः- अत्यासन्ना विनाशाय, दूरस्था न फलप्रदाः ।
सेव्या मध्यमभावेन, राजवह्निगुरुस्त्रियः ॥५१८॥ अतो हि धीमतां प्रोक्ता, स्त्रीसेवासमता शुभा । बह्वी क्षयाय विज्ञेया, वदन्तीति विचक्षणाः ॥५१९॥ आर्त्तध्यानेन रोगार्लो, रणचूडो मृतस्ततः ।
विन्ध्याचलासन्नवने, सोऽभून्मत्तो मतङ्गजः ॥५२०।। यतः- अट्टेण तिरिक्खगई, रुद्दज्झाणेण पावए नरयं ।
धम्मेण देवलोओ, सिद्धिपुरी सुक्झाणेणं ॥५२१॥ [ र.स./१०२] आर्तं रौद्रं तथा ध्यानं, तस्मात् त्याज्यं विवेकिना । ध्येयं धन॑ तथा शुक्लं, याऽन्ते मतिश्च सा गतिः ॥५२२॥
15
20
25