________________
[२७५
षष्ठः पल्लवः]
मित्रस्यापि कठोरत्वं, तृष्णावृद्धी रसत्रुटिः । जलवल्लभता ग्रीष्मे, कलिकाल इवाभवत् ॥४९७।। सार्थपो मुनिपार्वे स, समुदाययुतोऽवसत् । क्षुत्तृषातिर्मुनेचूहे, सृष्टा देवेन मायया ॥४९८॥ शीतलाम्बुकरम्बाद्यं, मुनेरग्रे त्वढौकयत् । नाग्रहीत् तन्मुनिः किञ्चित् , यत् षण्मासीतपोविधिः ॥४९९।। यामिन्यद्धे च देवेनातपं कृत्वेति भाषितम् । ममोपरि दयां कृत्वा, कायोत्सर्ग हि पारय ॥५००॥ सन्निं प्रासुकं मेऽस्ति, त्वं तु प्रासङ्गिकोऽतिथिः । तच्छ्रुत्वा मुनिनाऽचिन्ति, निशायां कथमातपः ॥५०१॥ मायया केन देवेन, क्रियते मत्परीक्षणम् । कायोत्सगर्गं ततो नाहं, पारयाम्यवधि विना ॥५०२॥ चतुर्विधाऽऽहारमुक्तः, कायोत्सर्गे स्थितो मुनिः । देवेन व्याघ्रसाणामुपसर्गाः कृता घनाः ॥५०३।। नोपसर्गेश्चचालर्षिविरराम स्वयं सुरः । सानुकूलो हृष्टमनाः, प्रकटीभूय चावदत् ।।५०४।। प्रभो ! यादृक् सुरेन्द्रेण, वर्णितस्त्वं ततोऽधिकः । परीक्षितो मया यत् त्वं, क्षन्तव्यं तन्महामुने ! ॥५०५॥ किं वातैः प्रबलैविश्वैर्मेरुशृङ्गं हि चालितम् । इति स्तुत्वा पुष्पवृष्टिं, कृत्वा नत्वा सुरो गतः ॥५०६।। षण्मास्यन्ते संवरर्षिश्चकार विधिपारणम् । तपसा लब्धयो जाता, अणिमाद्या अनेकशः ॥५०७।। चिरं तीव्रतपस्तत्त्वा, प्रान्ते पक्षोपवासतः । मृत्वाऽभूत् सप्तमे कल्पे, इन्द्रसामानिकः सुरः ॥५०८।। वैताढ्ये दक्षिणश्रेण्यां, पुरी क्षेमङ्कराऽभवत् । गुणचूडनृपस्तत्र, राज्ञी मदनवल्लिका ॥५०९॥