________________
5
10
15
20
25
२४]
नरके यानि दुःखानि, जीवैर्भुक्तान्यनन्तशः । लेशतस्तानि कथ्यन्ते, सावधानतया शृणु ॥४८४||
यतः - खण्ड्यन्ते तिलशो यत्र, कुट्ट्यन्ते वज्रमुद्गरैः । पच्यन्ते वह्नकुम्भीषु, छिद्यन्ते निशितासिभिः ॥४८५॥ करपत्रैर्विदार्यन्ते, भक्ष्यन्ते कोलकुर्कुरैः । महायन्त्रेषु पीड्यन्ते पाय्यन्ते, गलितं त्रपुः ॥४८६॥ अयोरथेषु योज्यन्ते, आस्फाल्यन्ते शिलातले । क्षिप्यन्ते वह्निकुण्डेषु, स्वाप्यन्ते तप्तधूलिषु ॥४८७॥ क्षेत्रस्वभावजं नित्यमन्योऽन्येन कृतं तु यत् ।
[ धर्मकल्पद्रुमः
वेदयन्ति महादुःखं, नारका गाढमत्सराः ॥४८८॥ ज्वरोष्णदाहा भयशोकतृष्णा- कण्डूबुभुक्षा अपि पारवश्यम् । शीतं पुनर्नारकिणामतीव, दश प्रकाराः प्रभवन्ति पीडाः ॥४८९॥
तिरिया कसंकुसारानिवायवहबन्धमारणसयाइं ।
न वि इहयं पावंता, परत्थ जड़ नियमिया हुंता ॥४९०॥ [ उप.मा. / २८१] एवं संसारदुःखानि श्रुत्वा वैराग्यतोऽथ सः ।
खड्गधारासमं तीव्रं, नी(ला) त्वा व्रतमपालयत् ॥४९१॥ गुरुशिक्षां दधच्छीर्षे, गीतार्थः सोऽभवत् क्रमात् । तपांसि प्रतिमादीनि सर्व्वाण्येवाकरोत् पुनः ||४९२॥ जिनकल्पधरो जातः, षाण्मासिकतपोधरः । कार्योत्सर्गेऽन्यदाऽरण्ये, स्थितोऽसौ मेरुवत् स्थिरः ||४९३ || स्वर्गे तदा सुरेशेन, तत्स्थिरत्वं प्रशंसितम् । मिथ्यादृष्टिः सुरः कश्चित् तत्प्रशंसां न श्रद्दधौ ॥ ४९४॥ तेनैवं कथितं चाहं, चालयामि द्रुतं मुनिम् । मनुजे किं स्थिरत्वं यद्देवैरपि न चाल्यते ? ॥ ४९५॥ इत्युक्त्वाऽऽगात् सुरस्तत्र, स मुनिर्यत्र संस्थितः । कृतस्तु मायया सार्थो, ग्रीष्मकालोऽवतारितः ॥४९६॥