________________
षष्ठः पल्लवः]
[२७३ विचार्यैवं पुरं त्यक्त्वा, ययौ यावद्वनान्तरे । गोपालैस्तत्र पाषाणैर्लकुटैः कुट्टितस्तदा ॥४७२।। तेनानुमोदना चैवं, चक्रे धृत्वा क्षमां तदा । रे जीव ! कृतकर्माणि, सहनीयानि सर्वथा ॥४७३।। दारियादवदग्धानामाधिव्यधिधृतात्मनाम् । कृपणानामशक्तानां, गतिरेका क्षमोदिता ॥४७४॥ गच्छन् सोऽग्रे महारण्ये, प्रविष्टो भवभीतिधृत् । सिद्धासने स्थितस्तत्र, दृष्टस्तेन मुनीश्वरः ॥४७५।। मुनिना तं समायातं, दीनं वीक्ष्येति जल्पितम् । आगच्छागच्छ वत्सात्र, तच्छ्रुत्वा तेन चिन्तितम् ॥४७६।। अहो मे साम्प्रतं किञ्चिद्भाग्यं जागरितं खलु । आगच्छेति हि वार्ता प्राग् , नोक्ता केनापि मां प्रति ॥४७७।। मुञ्चन्नश्रूणि सोऽजल्पत् , लगित्वा मुनिपादयोः । अद्य जातः कृतार्थोऽहं, भगवंस्तव दर्शनात् ॥४७८।। बाहौ धृत्वाऽथ मुनिनाऽऽश्वास्य स्वस्थीकृतश्च सः ।
वैराग्यविषये तस्य, प्रदत्ता चेति देशना ॥४७९॥ यतः- दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां,
बालत्वे चापि दुःखं मलमलिनतनुः स्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥४८०॥ 20 संसार एष कूपः सलिलानि विपत्तिजन्मदुःखानि । इह धर्म एव रज्जुस्तस्मादुद्धरति निर्मग्नान् ॥४८१॥ दित्सा स्वल्पधनस्याप्यवष्टम्भः कष्टितस्य च । गतायुषोऽपि धीरत्वं, स्वभावोऽयं महात्मनः ॥४८२॥ संवर: स्माह हे साधो !, दुःखं मेऽत्र भवे महत् । मुनिर्जगाद नृभवे, दुःखमेतत् कियत् तव ? ॥४८३॥