________________
[धर्मकल्पद्रुमः अहो मे कीदृशं पापं, वर्त्तते युगपद्यतः ।
मातापित्रोविनाशोऽभूत् , कुटुम्बस्य च सम्पदाम् ॥४६१॥ उक्तञ्च- उत्पद्यन्ते च हृद्येव, हृद्येव च विलिल्यिरे ।
अहो मे मन्दभाग्यस्य, रोरस्येव मनोरथाः ॥४६२॥ मानिता न सुद्धाचो, गणितं नात्मलाघवम् । जनवादाच्च नो भीतं, कुलाङ्गारेण हा मया ॥४६३॥ सौनिकेषु कृतघ्नेषु , व्याधेषु व्रतलोपिषु । विश्वस्तघातकेष्वेषु , मत्समो नैव पापभाक् ॥४६४॥ कषायविषयान्धेषु , तिर्यग्नरकगामिषु । प्रच्छन्नपापकार्येषु , संसारानन्तचारिषु ॥४६५॥ अभव्येषु मदान्धेषु , मांसाशनरतेष्वपि । कुलमालिन्यकेष्वेषु , मत्तुल्यो नैव दुर्दशः ॥४६६॥ युग्मम् ॥ वरमन्धो वरं मूर्यो, वरं कुष्ठी वरं कुणिः ।
वरं पक्षी वरं म्लेच्छो, नाहं कुलजमानवः ॥४६७॥ 15 काव्यम्- केचिज्जनाः सकलमेव जगत्समर्था, भर्तुं कुटुम्बमपरे तनुमात्रमन्ये ।
अस्मद्विधाः पुनरभाग्यभुजङ्गदष्टाः,शक्ता भवन्ति न निजोदरपूरणेऽपि ॥४६८॥ भ्रान्तं याचनतत्परेण मनसा देहीति वाक् प्रेरिता, भुक्तं मानविवर्जितं परगृहे साशङ्कया काकवत् । साक्षेपं भृकुटीकटाक्षकुटिलं दृष्टं खलानां मुखं, तृष्णे देवि ! यदन्यदिच्छसि पुनस्तत्रापि कुर्मो वयम् ॥४६९॥ दृष्टं दुर्जनचेष्टितं परिभवो लब्धः समानाज्जनात् , मित्रार्थे धनिनां कृतं सुललितं भुक्तं कपालेष्वपि । पद्भ्यामध्वनि सम्प्रयातमसकृत् सुप्तं तृणस्रस्तरे,
यच्चान्यन्न कृतं कृतान्त ! कुरु तत्तत्रापि सज्जा वयम् ॥४७०॥ 25 स पुनश्चिन्तयामास, पराभवगृहस्य मे ।
दुर्भगस्य स्थिति:व, युज्यते नगरान्तरे ॥४७१।।
20