________________
[२७१
षष्ठः पल्लवः]
तत्पुरे गुणसारोऽभूत् सार्थवाहो महाधनी । गुणश्रीस्तत्प्रिया चासीत् पतिचित्तानुवर्तिनी ॥४४८॥ दिनैः कतिपयैस्तस्य, दुर्दशायोगतः खलु । नरकच्युतैकजन्तुर्गुणश्रीकुक्षिमागतः ॥४४९।। तस्योत्पत्तिवशात् साऽथ, दोहदानशुभान् दधौ । पर्यधान्मलिनं वस्त्रं, कुत्सितान्नं च रोचते ॥४५०॥ दानं नाहं ददाम्येव, कथमायान्ति मद्गृहे । भिक्षुका इत्यभूत् तस्या, उक्तिर्गर्भानुभावतः ॥४५१॥ अभाग्यवशतस्तस्या, गुणसार: पतितः । सकलापि गता लक्ष्मीर्जलस्थलगृहस्थिता ॥४५२।। यद् यस्य चटितं हस्ते, गृहीतं तेन तद्धनम् । अथ तस्मिन् सुतो जाते, मृता माता कियद्दिनैः ॥४५३।। कृशः कपिलकेशश्च, कुब्जो वामन एव च । कुरूपो दुर्भगो बालः, सोऽभवत् पूर्वपातकात् ॥४५४।। कुटुम्बं संहृतं तेन, दयया पालितो जैनाः । सुगुणं विगुणं नैव, गणयन्ति दयालवः ॥४५५।। संवृतं सकलं तेन, तस्मात् कारणतो जनैः । संवरोऽस्य कृतं नाम, प्रसिद्ध बालकालतः ॥४५६।। यत्रासौ याति तत्रोच्चैर्दुर्वाक्यैस्ताड्यते जनैः । केषाञ्चिद् गृहहट्टादौ, दौर्भाग्यात् प्राप न स्थितम् ॥४५७।। वसतिं कुरुते यत्र, तत्र डिम्भैः प्रपीड्यते । काकेभ्यो घूकवत्तेभ्यः, पीडनं सहते स्म सः ॥४५८।। राजद्वारे गतः सोऽथ, ताड्यते द्वारपालकैः । तारुण्येऽपि विरूपं तन्न गतं तस्य कर्मतः ॥४५९।। इत्थं प्रवर्त्तमानेऽथ, कालेऽतिदुर्दशान्विते । दौर्भाग्यदुःखतश्चित्ते, आत्मना स व्यचिन्तयत् ।।४६०।।
15