________________
5
10
15
20
25
ख
[ धर्मकल्पद्रुमः
यतः - कान्तारे व्यसने विवादकलहे दुःखे सुखे सङ्गरे, यात्रायां व्यवहारकर्म्मणि कुलाचारे विवाहक्रमे । अन्यत्रापि शुभाशुभेषु विधिषु प्रायः सहायः सदा, यस्तस्मै निजबन्धवे स्पृहयति स्वैरं न किं बान्धवः ? ॥४३७॥ सर्व्वमप्याप्यते वस्तु, पौरुषेण धनेन वा । न भ्राता प्राप्यते क्वापि, पुण्यवान् विनयी गुणी ॥४३८ ॥ अथ तन्नगरासन्ने, वने भूरिगुणान्वितः । आगात् श्रीसम्भवः सूरिर्दूरीकृततमोभरः ॥४३९॥
प्रासुकं स्थण्डिलं प्रेक्ष्य, शिष्यसप्तशतैर्वृतः । तत्र स्थितश्चतुर्ज्ञानी, चतुर्धा धर्मभाषकः ||४४०|| उद्यानपालकाद् ज्ञात्वा, गुरोरागमनं नृपः । आगत्य चानमत् सूरिं, शुश्रावेति च देशनाम् ॥४४१॥ भो भव्याः ! भवपाथोधौ, विरसे कश्मलाविले । एकः प्रशस्यते धर्मश्चिन्तामणिरिवामलः ॥४४२॥ विद्वेषो व्यसनेषु साधुषु महाप्रीतिर्गुणेष्वादरः, सद्विद्यासु रतिः सुभाषितरसास्वादेषु कौतूहलम् । शक्तिः सूक्तिकृतौ परार्त्तिशमने यत्नो जिनाराधने, तात्पर्यं जगतीह कस्यचिदहो धनस्य सम्पद्यते ॥ ४४३ ॥ समत्वं भज भूतेषु, निर्ममत्वं विचिन्तय । अपाकृत्य मनःशल्यं भावशुद्धि समाश्रय ॥४४४॥ श्रुत्वेति देशनां राजा, भृशं वैराग्यरञ्जितः । पृच्छति स्म निजं पूर्व्वभवं पुण्यं च यत्कृतम् ॥४४५॥ गुरुरूचे महीनाथ ! शृणु जन्मान्तराणि ते । यत्तपसाऽर्जितं पुण्यं, स्फुटं तत्कथयामि ते ||४४६॥ क्षेत्रेऽत्रैव पुरी रम्या, नरकान्ताभिधाऽभवत् । नरसेनो नृपस्तत्र, कुञ्जरश्रेणिशोभितः ॥४४७||