________________
[२६९
10
षष्ठः पल्लवः]
सुबुद्धिसचिवाद्या ये, येऽन्ये प्राघूर्णका अपि । सम्पूज्य परया भक्त्या, तान् सर्वान् विससर्जः सः ॥४२५॥ पूर्वं पद्मावती पट्टदेवी राज्ञोऽभवद्यथा । लब्धा स्वप्नानुसारेण, कमलश्रीरभूत् तथा ॥४२६।। रति-प्रीतिसमानेन, तेन भार्याद्वयेन सः । राजा रराज सद्रूपः, कन्दर्प इव मूर्तिमान् ॥४२७।। पद्मिनी-हस्तिनीभेदास्तस्य जाताः प्रियाः पराः । सार्द्ध ताभिर्बुभोजासौ, भोगान् राज्यं च चक्रिवत् ॥४२८।। प्राग्जन्ममोहतो राज्ञो, विशेषात् कमलश्रियाम् । रागोऽभूत् तेन न प्राप, स रति तां विना क्वचित् ॥४२९।। राज्यं पालयतस्तस्य, न दुर्भिक्षं न विड्वरम् । न दुःखं नैव चान्यायो, न पापं चाभवद्भुवि ॥४३०॥ न्यवारयदसौ सप्त, व्यसनान्यवनीतले । सप्तक्षेत्रेषु वित्तानि, वपति स्म सुवित्तवान् ॥४३१।। तस्याथ भुञ्जतो भोगान् , घनः कालो गतस्ततः । पद्मावती कमलश्री, पत्न्यौ गर्भं च बभ्रतुः ॥४३२।। पुत्रौ क्रमाद् द्वयोर्जातो, पित्रा हर्षेण सोत्सवम् । श्रीषेणो हरिषेणश्चेति नाम्नी विहिते तयोः ॥४३३।। पूर्वं तौ लालितौ पश्चात् , पाठितौ सकला: कलाः ।
क्रमात् प्रवर्धमानौ च, प्रापतुर्योवनं वरम् ॥४३४॥ यतः- बाल्ये शास्त्रकलापरिश्रमपर: शिक्षावपुःपोषक
स्तारुण्ये विभवार्जनश्च विषयी पित्रोः परं पालकः । धम्मिष्ठश्च मनोविकारविरहत्स्वच्छेन्द्रियो वार्द्धकेऽपीदृक्षस्तनयो भवेदिह परत्रासङ्ख्यसौख्याय वै ॥४३५॥ द्वावपि भ्रातरौ तौ हि, राम-लक्ष्मणवत्सदा । परस्परं प्रेमबद्धौ, भुञ्जाते क्रीडतः सह ॥४३६।।
15
25