________________
10
षष्ठः पल्लवः]
[२६७ सीदन्तु स्वजना हसन्तु पिशुनाः शोचन्त्वमी बान्धवा, आरोहन्त्वसवस्तुलां नयविदो निन्दन्तु यान्तु श्रियः । सेव्योऽभीष्टजनस्तथापि रभसा निःशङ्कमुच्चैर्यतो, युक्तायुक्तविचारणा यदि भवेत् स्नेहाय दत्तं जलम् ॥४०१॥ न दृष्टोऽथ पतिः सिञ्चन् , दावपीडितया मया । धिग् मां यया कृतो द्वेषः, प्रायो नार्योऽल्पबुद्धयः ॥४०२।। ध्यात्वैवं स तया पृष्टः, केन चित्रेऽपितं ह्यदः । तेनोक्तं शृणु मे स्वामी, राजाऽस्ति पद्मिनीपुरे ॥४०३॥ पुरुषोत्तमनामा स, जातिस्मृत्याऽवगम्य च । पट्टेषु लेखयामास, चरित्रं पूर्वजन्मनः ॥४०४।। निजप्राग्भवभार्याया, ज्ञानार्थं मतिमोहतः ।
सर्वत्र राज्यसंस्थाने, ते पट्टास्तेन प्रेषिताः ॥४०५॥ यतः- कर्माणि सर्वाणि च मोहनीये, दुःखानि सर्वाणि दरिद्रतायाम् ।
पापानि सर्वाणि च चौर्यभावे, दोषा अशेषा अनृते भवन्ति ॥४०६॥ जाग्रतामपि निद्रा या, पश्यतामपि याऽन्धता । श्रुते सत्यपि जाड्यं यत् , सप्रकाशे च यत् तमः ॥४०७॥ दाराः परिभवकारा, बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो, ये रिपवस्तेषु सुहृदाशा ॥४०८॥ अतः प्राग्भवजो मोहो, मोचितोऽपि न मुञ्चति । तेनाहं पट्टमादाय, स्वामिवाक्यादिहागतः ॥४०९।। ततो हर्षभरात् सोचे, जातिस्मृत्येति वेम्यहम् । सैव हस्तिन्यहं जाता, प्राक्पतिर्मे नृपः स तु ॥४१०।। सा तस्मिन् रागिणी प्रोक्त्वा(च्य), सम्बन्धं पितरं जगौ । पद्मिनीपुरभूपेन, समं मां त्वं विवाहय ॥४११।। हृष्टचित्तेन राज्ञाऽथ, कृता सामग्रिकाऽखिला । महा सर्वसारेण, सुबुद्धिसचिवान्विता ॥४१२॥
15