________________
रुद]
[धर्मकल्पद्रुमः इत्थं निशम्य भूपस्त्री, चिन्तासागरसङ्गता । सा जातिस्मरणं प्राप, ज्ञात: पूर्वभवो निजः ॥३८८॥ अन्येद्युः तापसीपार्वे, गत्वा भूपतिरामया । कन्यायाश्चात्मनः पूर्वभववृत्तं निवेदितम् ॥३८९॥ तपस्विन्या ततस्तच्च, चरित्रं चित्रपट्टके । लिखितं लिखिता तत्र, साटवी दवसंयुता ॥३९०।। प्रियां प्रज्वलितां प्रेक्ष्य, गतो नागोऽम्बुहेतवे । नीरमानीय तां दग्धां, सिञ्चति स्म द्रुतं करी ॥३९१।। पुनर्याति तथाऽऽयाति, नीरं नीत्वा स वेगतः । एवं गमागमौ कर्व्वन , दवदग्धो मृतो गजः ॥३९२॥ कृतानि हस्तिहस्तिन्योरेवं रूपाणि पट्टके । शिक्षां दत्त्वा ददौ राजा, पढें सुमतिमन्त्रिणे ॥३९३॥ तेन चतुष्पथे पट्टो, मण्डितो महिमान्वितः । किमेतदिति यः कोऽपि, पृच्छेत् तदेति वक्त्यसौ ॥३९४॥ मत्स्वामिचरितं ह्येतन्महाश्चर्यविधायकम् । परम्परागता पट्टवार्ताऽथ कन्यया श्रुता ॥३९५।। आकारितस्तया तत्रागतोऽसौ पट्टहस्तकः । दृष्टश्च चित्रितः पट्टोऽटवी दृष्टा दवान्विता ॥३९६।। दृष्टानि गजरूपाणि, ज्ञातं तवृत्तमात्मनः । सा तं पूर्वपति वीक्ष्य, रुरोदोच्चैः पुनः पुनः ॥३९७।। अग्निदग्धं गजं दृष्ट्वा, मुक्त्वा च नरमत्सरम् । दध्यौ सा मम कार्ये हा, स्नेहबद्धो मृतः पतिः ॥३९८।। स्नेहो मूलमनर्थानां, स्नेहो दुःखपरम्परा ।
स्नेहेन सहते जन्तुर्मथनं दधिवत् सदा ॥३९९॥ यतः- प्रियाकृते शृङ्खलतां मुरारिः, शशी कलङ्क रविरङ्गतक्षाम् ।
देहार्द्धतां शम्भुरुरीचकार, प्रेम्णो विकारः खलु दुर्निवारः ॥४००॥
25