________________
षष्ठः पल्लवः]
[२६५ नमस्कारप्रभावश्च, श्रुतो मुनिमुखात् तया । सान्ते तद्ध्यानतो मृत्वा, दवदग्धा दिवङ्गता ॥३७७।। भुक्त्वा स्वर्गसुखं च्युत्वा, सा जाताऽहं नृपाङ्गजा । दृष्टे गजेऽत्र मे जातिस्मृतिर्जाता सुलोचने ! ॥३७८।। मां ज्वलन्ती दवे मुक्त्वा, गजो नष्टः स निष्ठुरः ।। नरा एवंविधाः क्रूरास्तन्मुखं वीक्ष्यते कथम् ? ॥३७९।। स्वर्गभोगा मया भुक्ता, मेरुतुल्या हि हे सखि ! ।
तत् किं सर्षपसदृशैर्मानुषैस्तृप्यते मन: ? ॥३८०।। काव्यम्- असुरसुरपतीनां यो न भोगेषु तृप्तः,
कथमिह मनुजानां तस्य भोगेषु तृप्तिः ? । जलनिधिजलपानाद् यो न जातो वितृष्णस्तृणशिखरगताम्भःपानतः किं स तृप्येत् ? ॥३८१॥ विषयसुखं दुग्धमिवास्वादयति जनो बिडाल इव मुदितः । नोत्पाटितलकुटमिवोत्पश्यति यममहह किं कुर्मः ? ॥३८२॥ ध्यानैः किं गुरुभिः परैः किमुरुभिस्तैस्तैस्तपोभिवरैः, किञ्चान्यैरपि देवतादिविषयस्तोत्रैः प्रपञ्चैः कृतैः ।। भ्रातश्चित्त ! परं सुखं स्पृहयसि त्वं चेत् तदा दूरतो, वातान्दोलितलोलदीपकशिखामित्राणि कामांस्त्यज ॥३८३॥ विचार्यैवं ममाग्रे च, हे हले विषयादिकम् । पुनः पुरुषनामापि, कथनीयं कदापि न ॥३८४॥ प्रियां प्रेमपरां मुक्त्वा, ज्वलन्तीं यद्गतः करी । पुरुषार्थः स किं श्रेष्ठः, स नरो मन्यते कथम् ? ॥३८५।। सुलोचनाऽवदन्नार्याः, कन्यात्वं भाति नो चिरम् । एवं तदाग्रहाद् भूयः, कमलश्रीरिदं जगौ ॥३८६।। यदि प्राग्भवभर्तारं, क्वापि जानामि तद्गुणान् । दृष्ट्वा कदाचिदप्येनं, स्नेहात् परिणयाम्यहम् ॥३८७।।
15
25