________________
[धर्मकल्पद्रुमः तत्राटव्यां स्थण्डिलानि, पञ्च सन्ति पुरा तदा । तृणवृक्षविहीनानि, दवदुःखं हि तत्र न ॥३६५॥ दवं दृष्ट्वा स नागेन्द्रः, प्रनष्टः करिणीयुतः । प्राक् स्थण्डिले गतौ यावत् वत् तत्पूर्णमङ्गिभिः ॥३६६।। अग्निभीतान् वनचरान् , तत्र तान् वीक्ष्य हस्तिराट् । कृत्वा तेषां दयां मुक्त्वा, स्थण्डिलं तत्पुरो ययौ ॥३६७।। एवं दृष्ट्वा स्थण्डेिलषु , द्वितीयादिषु देहिनः । स हस्ती हस्तिनीयुक्तो, गतः पञ्चममण्डले ॥३६८।। तदप्यरण्यजैर्जीवैः, शशखड्गिमृगादिभिः । पूर्णं दृष्ट्वा प्रियायुक्तस्तस्य कोणे स्थितो गजः ॥३६९।। दावाग्निर्विषमो जातो, वातेन प्रेरितः पुनः । तेनारण्यं निमेषेण, कृतं प्रज्वाल्य भस्मसात् ॥३७०।। वनानि दहतो वह्नेः, सखा भवति मारुतः । स एव दीपनाशाय, 'कृशे कस्यास्ति सौहृदम्' ॥३७१।। विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता, धूमैरन्तरिताः स्वभावमलिनैराशा मही तापिता । भस्मीकृत्य सपुष्पपल्लवलतानेतान्महापादपानुवृत्तेन दवानलेन विहितं वल्मीकशेषं वनम् ॥३७२॥ स्थण्डिलान्तःस्थिताक्रान्ता, दैवाद् दावेन हस्तिनी । नष्टो दवभयाद् हस्ती, दह्यमानां विमुच्य ताम् ॥३७३।। मुखं लात्वा निजं जीवं, करे कृत्वा सुवेगतः । पतिं पलायितं वीक्ष्य, करिणी कोपमादधौ ॥३७४।। पुनश्चित्तं तया स्वस्थं, विहितं क्रोधशान्तितः । पूर्वं मुनिप्रसङ्गाच्च, जाताऽस्याः पुण्यसन्मतिः ॥३७५।। तद्वने श्रीयुगादीशजिनप्रासाद उत्तमः । पुरा दृष्टस्तदा चित्ते, स स्मृतो भाग्यतस्तया ॥३७६।।
20