________________
[२६३
षष्ठः पल्लवः]
तव या भ्रातृजा सा मे, भगिनी तदिमां मम । पार्वे मुञ्च यथा यान्ति, दिवसा वार्तया सुखम् ॥३५२।। तपस्विन्युपदेशेन, तया नीता निजे गृहे । द्वे अपि क्रीडतः प्रीत्या, गोष्ठीञ्च कुरुतो मिथः ॥३५३।। भोजनादि तया साकं, कुरुते राजनन्दिनी । तपस्विन्याश्रमे सार्द्ध, ते च यातः प्रमोदतः ॥३५४।। कुरुतस्ते कलाभ्यासं, मिथः स्नेहविमोहिते । कतिचिद्वासरानेवं, गमयामासतुः सुखम् ॥३५५॥ सुलोचनान्यदाऽवादीत् प्रीत्या राजसुतां प्रति । कथं मातृपितृभ्यां ते, नोद्वाहो यौवने कृतः ॥३५६।। रूपं रम्यं वयो नव्यमस्ति विज्ञानकौशलम् । आरोग्यं तर्हि तारुण्यं, त्वं हारयसि किं मुधा ? ॥३५७।। ततो नृपसुताप्याख्यत् , बाष्पसम्पूर्णलोचना । मम चेद्भव्यभगिनी, तत्त्वं पुंनाम मा वद ॥३५८।। ऊचे सुलोचना भद्रे !, पुरुषद्वेषकारणम् । वद यत्कौतुकं मेऽस्ति, कन्योचे शृणु सुन्दरि ! ॥३५९।। पितृपट्टगजे दृष्टेऽभूज्जातिस्मरणं मम । ज्ञात्वा प्राग्भवजां वार्ता, जाताहं नरमत्सरा ॥३६०॥ नारीरूपधरो भूपः, पुनः पप्रच्छ कुञ्जरे । दृष्टे कथं नरद्वेष, प्राग्भवः कीदृशश्च ते ? ॥३६१।। कमलश्रीस्ततोऽभाणीत् , शृणु त्वं हे सुलोचने ! । मम पूर्वभवं येन, जाताहं नररोषिणी ॥३६२।। मलयाद्रौ महाटव्यां, माणिभद्राभिधः करी । प्रियङ्करीति नाम्नाऽभूत् करिणी तस्य च प्रिया ॥३६३।। स्वेच्छया क्रीडतस्तौ द्वौ, मिथः प्रेमपरायणौ । अन्यदा दैवयोगेन, दवो लग्नो महान् वने ॥३६४।।
15