________________
5
10
151
20
25
रू]
[ धर्मकल्पद्रुमः
मुक्त्वा कुब्जत्वमात्मानं, नारीत्वं पश्यति स्म सः । पुनः स्वरूपवान् जातश्छोटयित्वा करौषधीम् ॥३३९॥ ज्ञात्वा तत्तत्प्रभावं तद् गुप्तीकृत्य जटीद्वयम् । उत्थाय भूपतिर्भूयो, गतः प्रव्राजिकामठे ||३४०|| कृतः प्रश्नः तपस्विन्या, कथं चिन्तातुरोऽसि भोः ! | का चिन्ता तव चित्तेऽस्ति, तां प्ररूपय मां प्रति ॥ ३४१||
तस्या अग्रे नृपेणाथ, स्वरूपं स्वप्नसम्भवम् । प्रोच्य प्रोचे च कन्यायाः, प्राप्तेश्चिन्तास्ति मेऽधुना ॥ ३४२ ॥ ततस्तपस्विनी प्रोचे, सा नारी नरमत्सरी ।
पुरुषेण समं क्वापि, न करोत्येव भाषणम् ||३४३॥ नृपेणोक्तमहं मातर्मानिनीरूपमाश्रितः । तया समं वाग्विलासं विधास्यामि तवाज्ञया ॥ ३४४॥ तच्छ्रुत्वा तापसी प्रोचे, शक्तिस्तेऽस्ति यदीदृशी । तव सेत्स्यति कार्यं तत्कोऽप्युपायोऽस्ति नापरः ॥ ३४५॥ ततो दिने द्वितीये स, विधाय वनितावपुः । तपस्विन्याश्रमे गत्वा, नत्वा चैनामुपाविशत् ॥ ३४६॥ अत्रान्तरे कमलश्रीरागता तन्मठे रयात् । भक्तिपूर्वं नमस्कृत्य, तापसीं प्रति चाब्रवीत् ॥३४७॥ एषा का दृश्यते रामा, कुतः स्थानादिहागता । रम्यरूपा किमर्थञ्च, स्थिता युष्माकमन्तिके ॥ ३४८ ॥ सा वृद्धा तापसी स्माह, सुभगे ! शृणु मे वचः । सुलोचनाभिधानेयं, मदीया भ्रातृनन्दिनी ॥३४९॥ मन्मिलनाय सोत्कण्ठा, पद्मिनीपुरतोऽधुना । समायाता च पार्श्वे मे, दिनान् स्थास्यति कत्यपि ॥३५०॥ श्रुत्वैवं कमलश्रीः सा, तां परिव्राजिकां जगौ । मातस्ते कथ्यते किञ्चिन्मदुक्तं यदि मन्यसे || ३५१॥