________________
षष्ठः पल्लवः]
[२६१ ध्यात्वैवं खचरेणाथ, सप्रभावा महौषधिः । समानीय द्रुतं बद्धा, सुप्तस्य नृपतेः करे ॥३२६।। तत्प्रभावात् क्षणेनैव, नारीरूपो नृपोऽभवत् । कृत्वैवं खेचरो मध्ये, ययौ देवार्चनाकृते ॥३२७॥ अथ विद्याधरी तस्य, भार्या तत्रागता तदा । स नृपः प्रमदारूपधर: सुप्तस्तयेक्षितः ॥३२८।। देवकन्यासमं वीक्ष्य, तद्रूपं विस्मिता हृदि । चिन्तामिति चकारासौ, खेचरी तुच्छमानसा ॥३२९।। मुक्त्वा हि मामिमां नारी, वल्लभो मे करिष्यति । पुरुषा भ्रमरा एव, वर्ण्यन्ते वसुधातले ॥३३०॥ नराणां चञ्चला दृष्टी, रम्यारम्येषु तिष्ठति ।
कृत्याकृत्यं न जानन्ति, ते कामेन विडम्बिताः ॥३३१॥ यतः- स्नुषां प्रसूं सुतां धात्री, गुरुपत्नी तपस्विनीम् ।
तिरश्चीमपि कामार्तो, नरः स्त्री भोक्तुमिच्छति ॥३३२॥ अह्नाय वह्नौ बहवो विशन्ति, शस्त्रैः स्वदेहानि विदारयन्ति । 15 तपांसि कृच्छ्राणि समाचरन्ति, रागादिवीरान् विरला जयन्ति ॥३३३॥ दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणदृशः ।
किं पुनस्ताः स्मितस्मेरविभ्रमभ्रमितेक्षणाः ॥३३४॥ यतः- सन्तु विलोकनभाषणविलासपरिहारकेलिपरिरम्भाः ।
स्मरणमपि कामिनीनामलमिह मनसो विकाराय ॥३३५॥ 20 एवं ध्यात्वा तयाप्येकां, समानीय महौषधीम् । वामांह्रौ कृष्णसूत्रेण, बद्ध्वा कुब्जीकृतो नृपः ॥३३६।। विधायैवं सुरं नत्वा, खचरीखेचरौ गतौ । भूपो जागरितोऽपश्यत् , कुब्जीभूतं निजं वपुः ॥३३७॥ निजाङ्गं वीक्षमाणेन, दृष्टं तेनौषधीद्वयम् । विस्मितः प्रथमं पादात् , छोटयामास तां नृपः ॥३३८।।
25