________________
[धर्मकल्पद्रुमः तत्रैकवर्जं सर्वासां, गन्न्तर्दृषदोऽपतन् । ततो राजी वधूः प्राह, विद्धयेनं त्वं निदर्शनम् ॥३१४।। सरोषा राजरमणी, हृन्नेत्रान्धा पुनर्जगौ । वद द्राग् मीनहासस्य, कारणं दुःखवारणम् ॥३१५।। वक्ष्येऽहं शस्तनदिने, देवि ! चिन्तय चेतसा । सुभगं गुप्तमेव स्यात् , कार्यं नारीवराङ्गवत् ॥३१६।। द्वितीयेऽपि दिने बुद्ध्वा, राजपत्नी कृताग्रहाम् । भूपालमालपद्विप्रवधूः सुदृढमानसा ॥३१७।। देव्याश्चेटी: समग्रास्त्वं, विवस्त्राः कुरु भूपते ! । यथा जानासि मीनस्य, हसनं वचनं विना ॥३१८।। कुर्वन् तदुक्तं साश्चर्यं, तमेकं पुरुषं दृशा । ददर्श श्यामलतनुं , हीनवंशं विशाम्पतिः ॥३१९।। स्वामिन्नसौ स्त्रीवेषेण, भुङ्क्ते देवीं मृगावतीम् । तेन मीनो महीनाथ !, देवीवाचाऽहसद् भृशम् ॥३२०।। तदस्मान् शुभ्रवपुषः, कथं त्यजसि लम्पटे ! । त्वदीयं चरितं सर्वं, वयं जानीमहे यतः ॥३२१॥ इति प्रत्यक्षदृष्टान्तात् , कुपितो वसुधाधिपः ।
राज्ञीमाकर्षयामास, समं तेनापराधिना ॥३२२।। $$ दुःखखानिरगाधेयं, कलेर्मूलं भयस्य च ।
पापबीजं शुचां केन्दोऽनभ्राऽशनिर्नितम्बिनी ॥३२३॥ ननु सन्ति जीवलोके, काश्चिच्छमशीलसंयमोपेताः । निजवंशतिलकभूताः, श्रुतसत्यसमन्विता वनिताः ॥३२४।। यावन्नायाति मे नारी, तावत् कञ्चित् करोम्यहम् । उपायं प्रथमं येन, पश्चात्तापो भवेन्न मे ॥३२५।।
१. कन्दः श्वभ्रावनिनितम्बिनी. प्र० ।