________________
षष्ठः पल्लवः]
[२५९
एकदा क्वापि गच्छन्तौ, करम्बपुटवाहिनीम् । वाहिनीं वीक्ष्य तौ विप्रो, मुदा गाढं ननर्ततुः ॥३०२।। करम्बकं तु तत्रैव, भक्षयन्तौ बुभुक्षया । कदेति दध्यतुश्चित्ते, कुतोऽसौ पुटिकागमः ॥३०३।। नदीतटेन यान्तौ तौ, नरमेकं ददर्शतुः । मोचयन्तं पत्रपात्री. करम्बकभतां जले ॥३०४॥ ताभ्यामागत्य तत्पाबें, पुटिकामोक्षकारणम् । पृष्टं निवेदितं तेन, याथातथ्यं तयो(?)दितम् ॥३०५।। मदीयभर्तुरुदरे, व्रणमास्ते सवेदनम् । अतः पीडोपशान्त्यर्थं, करम्बस्तत्र बध्यते ॥३०६।। यथा नोल्लङ्घते कोऽपि, वाहिन्यां वाह्यते ततः । श्रुत्वेति तन्मुखाद् वृत्तं, विषादं प्रापतुद्विजौ ॥३०७।। धिगिदं किं कृतं कर्म, सर्वजननिगर्हितम् । अतो विषण्णौ तौ नद्यां, पतित्वा मृत्युमापुतः ॥३०८।। कार्यस्य कारणं तस्मान्न दृष्टव्यं नृपप्रिये ! । विमर्शय कथामेनां, भाषिष्ये यद् हसन्त्यमी ॥३०९।। इत्थं कथासुदृष्टान्तैर्मासमेकं नृपप्रिया । बोधिताऽपि हि नाबोधि, यतः स्त्रीषु कुतो मतिः ? ॥३१०।। मत्वा वारितवामां तां, वधूस्तत्र नृपाज्ञया । गर्तामखानयत् पृथ्वीं, हास्यसङ्केतहेतवे ॥३११।। समाहूय मृगावत्या, दासीवृन्दं च सावदत् । रे रे शृणुत मद्वाक्यं, सुधारससहोदरम् ॥३१२॥ क्षिप्ता यस्या दृषत् शीघ्रं, गर्तातीरं गमिष्यति । तस्यै दास्यति हृष्टात्मा, मुक्ताहारं महीपतिः ॥३१३।।
20
१. ददृशतु , इति स्यात् ।