________________
[धर्मकल्पद्रुमः निर्णेजयित्वा नीरेण, विशदां तारपत्रवत् । भूपाय ढोकयामास(सुः), मीनमालां च धीवराः ।।२८९।। तां भूपप्रेषितां मालां, वीक्ष्य राज्ञी जगौ रुषा । मत्स्याः पुरुषनामानस्तेन नाहं विलोकये ॥२९०।। वाक्येन तेन तत्रैकस्तिमिरट्टाहसीत् ततः । सञ्जातविस्मया राज्ञी, विषसाद स्वचेतसि ॥२९१॥ ज्ञातुं तन्मत्स्यवृत्तान्तं, न भुङ्क्ते स्म मृगावती । गतासुरपि मीनोऽसौ, विरराम न हासतः ॥२९२॥ न तन्त्रज्ञो न शास्त्रज्ञो, न ज्ञानी न च भूतवित् । अन्योऽपि कोऽपि धीधुर्यो, मीनहास्यं विवेद न ॥२९३।। स्त्रीग्रहेण नरेन्द्रोऽपि, पण्डितानित्यभाषत । यन्त्रे निपीडयिष्यामि, ब्रूत वा हास्यकारणम् ॥२९४॥ पशुवद्वाटके क्षिप्ताः, पण्डिताः क्षीणबुद्धयः । ययाचिरे ते दिवसत्रयं भूपतिभीरवः ॥२९५।। भीतानुद्वीक्ष्य तान् काचिदब्रवीत् पण्डितस्नुषा । महिषीं बोधयिष्यामि, यूयं मा कुरुताधृतिम् ॥२९६।। ततो विनीता सा राजगृहिणी निबिडाग्रहाम् । सामवाक्यैर्मर्मभिद्भिः, सान्त्वयामास दम्भिनीम् ॥२९७।। यथा यथा सुवाग्नीरैरभ्यषिञ्चन्नृपप्रियाम् । तथा तथा सा काठिन्यं, सणग्रन्थिरिवादधौ ॥२९८॥ देवि ! गृह्णन्ति कार्यस्य, ये पारं पुरुषाधमाः । ते सीदन्ति क्षणादेव, मूर्खद्विजसुताविव ॥२९९॥ कौ तौ द्विजसुतौ मुग्धे !, पृष्टा सा भावकोविदा । महिष्याः प्रतिबोधार्थमाचचक्षे कथामिमाम् ॥३००।। ६ नन्दिग्रामे द्विजः कश्चित्तस्य स्तस्तनयावुभौ ।
तौ भिक्षया स्वदिवसानतिचक्रमतुः क्रमात् ॥३०१।।
25