________________
[२५७
षष्ठः पल्लवः]
तं दृष्ट्वा खेचरो दध्यौ, अहो कोऽयं नरोत्तमः । रूपं निरुपमं चास्य, नेदृशं क्वापि दृश्यते ॥२७७।। मद्भायैनं नरं दृष्ट्वा, दुर्विकल्पान् विधास्यति । अस्मिन् रक्ताऽतिरूपेण, विरक्ता मयि भाविनी ॥२७८।। नितम्बिन्या असत्यत्वं, चञ्चलत्वं स्वभावतः । माया पुनरविश्वासो, विनता विश्वमोहकृत् ॥२७९॥ योषितो मनसः शेषद्रव्येण विदधे विधिः । करिकर्णतडिज्ज्योतिःखलप्रेमरमास्थितीः ॥२८०॥ यत्कर्म कर्तुं नियति लम्भूष्णुरवेक्ष्यते । तन्नार्यो हेलया कुर्युर्महिषीव सुशर्मणः ॥२८१॥
तत्कथा चेयमुच्यतेमालवोऽस्ति ययाऽनन्ता, प्रियं धत्ते समन्ततः । ऋद्धिस्फारा गुणाधारा, धारा नाम महापुरी ॥२८२॥ द्विगुणः पक्षशुद्ध्याऽभूत् , शैशवात् त्रिगुणस्तथा । आसीत् कलाभिर्यल्लोकश्चन्द्रात् सार्धचतुर्गुणः ॥२८३॥ तत्राऽरिदमनः कामं, भूषिताऽशेषभूतलः । सुशर्मा यः सुपर्बेव, सुशर्मा नाम पार्थिवः ॥२८४।। तच्चित्तकरिवारीव, रतिरूपविजित्वरा । तस्यासीन्महिषी मान्या, मृगनेत्रा मृगावती ॥२८५।। सा भूपवर्जमन्येषां, नराणां वदनान्यपि । न पश्यति स्म नियतं, सतीव्रतविधित्सया ॥२८६।। बुभुजेऽन्नान्यपि न सा, यानि स्युर्नरनामभिः । इत्थं मायाविनी राज्ञी, हृज्जग्राह नरेशितुः ॥२८७।। दीपोत्सवदिने लोका, भूपतेरुपदाकृते । आनिन्युश्चित्रवस्तूनि, स्वस्ववंशोचितानि च ।।२८८।।
१. अस्य पूर्वार्धश्चिन्त्यः । २. नन्तं प्र० ।