________________
२६]
10
[धर्मकल्पद्रुमः पुरं रम्यं महाहर्म्य, दृष्ट्वा प्रहर्षितो नृपः । तत्र मार्गादिकं सर्वं, वेत्ति स्वप्नानुसारतः ॥२६५।। गत्वा तेन मठे तस्मिन् , दृष्टं तत्तापसीद्वयम् । तत्पार्वे चोपविष्टा सा, वीक्षिता राजकन्यका ॥२६६॥ तां वीक्ष्य विस्मितो भूपोऽचिन्तयद्रूपमीदृशम् ।
केन द्रव्यप्रकारेण, निम्मितं विश्वकर्मणा ? ॥२६७।। यतः- तारुण्यद्रुममञ्जरी किमथवा कन्दर्पसञ्जीविनी,
किं लावण्यनिधानभूमिरथवा सम्पूर्णचन्द्रद्युतिः । किं नारी किममु किन्नरी किममरी विद्याधरी वाथ किं, केयं केन कियच्चिरेण कियता कस्मै कथं निम्मिता ? ॥२६८॥ चिन्तयन्निति भूपस्तां, यावद्भूयोऽपि पश्यति । शीघ्रमुत्थाय सा तावदीर्ण्ययाऽगान्निजे गृहे ॥२६९।। प्रणम्य द्वे तपस्विन्यौ, निविष्टो नृपतिस्ततः । आशी:पूर्वं क्षमानाथं, पप्रच्छाद्या तपस्विनी ॥२७०।। कुशलं तेऽस्ति हे भद्र !, दृश्यसे त्वं नरोत्तमः । किमर्थं कुत आयातः ?, क्व यास्यसि ? वद स्फुटम् ॥२७१।। पुनर्नत्वा नृपोऽवादीदायातः पद्मिनीपुरात् । द्रष्टुं देशान्तरं पृथ्यां, विनोदेन भ्रमाम्यहम् ॥२७२।। ततो राजाऽशनं पानं, खादिमं स्वादिमं तथा । चतुर्धाऽऽहारमेतस्यै, ददौ वस्त्रादिकं पुनः ॥२७३।। ततः सार्धं प्रधानेन, गत्वा भूपः सरोवरे । अङ्गं प्रक्षाल्य भुक्त्वा च, स्वयं चागात् सुरालये ॥२७४।। नमस्कृत्य सुरं भक्त्या, सुप्तस्तत्र सुखेन च । अत्रान्तरे सभार्योऽत्र, खेचरः कोऽपि चागतः ॥२७५।। वाटिकायां प्रियां प्रेष्य, पुष्पानयनहेतवे । आगाद् देवकुले स प्राक्, सुप्तं भूपं ददर्श च ॥२७६।।
20
25